SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रथमकथा । Acharya Shri Kailassagarsuri Gyanmandir " कृशः काणः खअः श्रवणरहितः पुच्छविकलो वणी योद्गीर्णः कृमिकुलशतैरावृततनुः । क्षुधा क्षामः क्षुण्णः पिठरककपालार्पितंगल: शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ " अहो 'स्त्रीचरित्रं न केनापि ज्ञातुं शक्यते ' लोकोक्तिरियं सत्या । तथा चोक्तम् " आलिङ्गत्यन्यमन्यं रमयति वचसा वीक्षते चान्यमन्यं रोदित्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणीते | शेते चान्येन सार्द्धं शयनमुपगता चिन्तयत्यन्यमन्यं स्त्री वामेयं प्रसिद्धा जगति बहुमता केन धृष्टेन सृष्टाः ॥ " यत्रेय वार्धिक एवं करोति तत्र तरुण्योर्मम भार्ययोः का बाती । तथा चोक्तम् 66 वायुना यत्र नीयन्ते कुञ्जराः षष्टिहायनाः । गावस्तत्र न गण्यन्ते सशकेषु च का कथा || " एवं मनसि विचार्य भार्ययोः शिक्षां प्रयच्छति । तद्यथा " १६ मूलविणठा वल्ली जं जाणह तं करेहु सुण्णाओ । अंबा पंगुर दि एरंडमूलम्मि | " एवं सूचितमभिप्रायं तदपि राजा न जानाति । इत्याख्यानं निरूपयित्वा निजगृहं गतो यमदंड: । इति सप्तमदिनकथा । अष्टमदिन आस्थानोपविष्टेन क्रोधाग्निदेदीप्यमानेन राज्ञा यमदंड: पृष्ठः- रे यमदंड, चौरो दृष्टः ? तेनोक्तं- हे देव, न कुत्रापि दृष्टः । ततो राज्ञा समस्तमहाजनमाकार्य भणितम् - अहो, मम दोषो नास्ति । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy