SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व-कौमुद्यां पुंसो न यस्य तदिह यमस्य सोन्धः तस्यापमार्गचलने खल कोऽपराधः ॥" एवं सूचिताभिप्रायं राजा न जानाति । इत्याख्यानं निरूपयित्वा निजमंदिरं गतो यमदंडः । इति षष्ठदिनकथा। सप्तमदिन आस्थानस्थितेन राज्ञा तथैव पृष्टः-रे यमदंड, चौरो दृष्टः ? तेनोक्तं हे देव, न कुत्रापि दृष्टः । राज्ञोक्तं-किमर्थ नही वेला लग्ना ? तेनोक्तं-केनचिद्वनपालेन चत्वरस्थाने कथा कथिता । सा मया श्रुता। अत एव वेला लग्ना। राज्ञोक्तं-सा ममाये निरूपणीया । तेनोक्तं-तथास्तु, तद्यथा-अवन्तिविषय उज्जयिनी नाम नगर्यस्ति । तत्र सुभद्रनामार्थवाहोस्ति । तस्य द्वे भायें । एकदा तेन निजमातृहस्ते भार्याद्वयं समर्प्य व्यवहारार्थ सुमुहूर्ते परिवारेण सह नगरीबाह्ये प्रस्थानं कृतं । इतस्तस्य माता दुश्चारिणी केनचिज्जारेण सह गृहवाटिकामध्ये स्थिता । रात्रौ कार्यवशात् सुभद्रः स्वगृहमागतः । तेनागत्य भाणतं--मो मातः, कपाटमुद्घाटय । पुत्रवचनं श्रुत्वा कपाटमुद्धाट्योभौ पलाय्य भीतातुरौ गृहकोणे प्रविष्टौ । गृहमध्ये प्रविशता तेन निजमातृवस्त्रमेरण्डवृक्षोपरि दृष्टम् । ततस्तेन मनस्युक्तमहो, इयं सप्ततिवर्षिका तथापि कामसेवां न त्यजति । अहो, वैचित्र्यं मकरध्वजस्य माहात्म्यम् । यतो मृतामपि मारयति । तथा चोक्तम् For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy