________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
vvvvvvvvv
vvvvvvvvvvvvvvvvvvvvvvvvvvvvvv
एकदाऽऽस्थानस्थितराज्ञोऽग्रे चरेण निरूपितम्-भो राजन्, तव देशः शत्रुभिरुपद्रुतः । एतद्वचः श्रुत्वा राज्ञोक्तं-तावद्वैरिवर्गा भुवस्तले निःशकं दृश्यन्तु, यावन्मत्कालखङ्गस्य गोचरे ते न निपतन्ति । उक्तं च" निद्रामुद्रितलोचनो मृगपतिवद्गुहां सेवते
तापत्स्वैरममी चरन्ति हरिणाः स्वच्छन्दसंचारिणः । उनिद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो
नादे श्रोत्रपथं गते हतधियां सन्स्येव शून्या दिशः ॥ तावद्गर्जन्ति मातंगा वने मदभरालसाः ।
शिरोवलमलांगूलो यावन्नायाति केसरी ॥"
" तावद्र्जन्ति मण्डूकाः कूपमाश्रित्य निर्भरम् ।
यावत्करिकराकारः कृष्णसर्पो न दृष्यते ॥" एवमुदित्वा चतुरङ्गबलेन राज्ञा शत्रु प्रति प्रयाणकोद्यमः कृतः । ततो वीराणां तुष्टिदानं दत्वा भणितम् -
"जानीयाः प्रेषणे भृत्यं बान्धवं व्यसनागमे ।
मित्रं चापत्तिकाले च भार्यां च विभवक्षये ॥" ततो निर्गमनसमये यमदंडकोटपालं प्रति तेन भणितम्-भो यमदंड, त्वया महद्यत्नेन प्रजारक्षणं कार्यम् । तेनोक्तं-महाप्रसादः । अपराण्यपि कार्याणि निरूप्य यमदंडस्य निर्गतो राजा । तुष्टिनादारभ्य यमदंडेन सर्वजनानन्दकारि रक्षणं कृतम् । राजकुमारादयः सर्वेपि नागरा समावनिताश्च । कतिपयदिवसैः शत्रु जित्वा स्वरिपोः सर्व
For Private And Personal Use Only