SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमकथा । wwwmic " एकोपि यः सकलकार्यविधौ समर्थः सत्वाधिको भवति किं बहुभिः महीनैः। चन्द्रः प्रकाशयति दिङ्मुखमंडलानि तारागणः समुदितोप्यसमर्थ एव ॥ पुनमैत्री वदति भो नरेन्द्र, तव विनाशकालः समायातः, अन्यथा विपरीतबुद्धिर्न जायते। उक्तं च " न निर्मिता कैर्न च पूर्वदृष्टा न श्रूयते हेममयी कुरंगी । तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः ॥" बहुजनविरोधे सति विनाशं विहायाऽन्यन्न भवति । अत्रार्थे सुयोधनराजाख्यानं शृणु सावधानो भूत्वा । तथाहि- हस्तिनागपुरे मुयोधनराजा । तस्य पट्टराज्ञी कमला । तयोः पुत्रो गुणपालः । मंत्री पुरुषोत्तमः । स चतसृनृपविद्यानां ज्ञाता राजवल्लभोऽभूत् । उक्तं च “ मंत्रः कार्यानुगो येषां कार्य स्वामिहितानुगम् । त एव मंत्रिणो राज्ञां न तु ये गलफुल्लकाः ॥" कपिलः पुरोहितो जपहोमविधानाशीर्वाददानसावधानः । उक्तं च " वेदवेदांगतत्वशो जपहोमपरायणः । आशीर्वादपरो नित्य मेष राज्ञः पुरोहितः ॥" यंमदंडः कोटपालः । एवं राज्यं करोति सुयोधनराना । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy