________________
Shri Mahavir Jain Aradhana Kendra
४
तथा चोक्तम्-
www.kobatirth.org
सम्यक्त्व-कौमुद्यां
Acharya Shri Kailassagarsuri Gyanmandir
" आज्ञाभंगो नरेन्द्राणां पूज्यानामपमानता । पृथक्शय्या च नारीणा-मशस्त्रवधमुच्यते ॥ "
लोकेन यथा राज्ञा भणितं तथा कृतम् । न केपि वनं गताः ।
उक्तं च
" आज्ञामात्रफलं राज्यं ब्रह्मचर्यफलं तपः ।
ज्ञानमात्रफलं विद्या दत्तभक्तफलं धनम् ॥
"
राज्ञा चतुर्दिक्षु सावधानान्भटान्संस्थाप्य रक्षणं कृतम् ।
यत
" नदीनां नखिनाञ्चैव शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्तव्यः स्त्रीषु राजकुलेषु च ॥"
?
यदा राज्ञाऽऽदेशवशवर्तिन्यो विविधविहितांगारा उद्यानगमनाय सर्वा नार्यः सोद्यमा दृष्टा तदा नागरिकानाहूयाऽऽज्ञप्तम् । भो नागरिकाः भवन्तो नगराभ्यन्तरे निजनिजविनोदैः क्रीडाद्यैश्च त्वरमाणास्तिष्ठतु । तदा श्रेष्ठिना चिन्तितम् - अद्याहं सपरिकरः कथं चैत्याचनं करिष्यामि इति क्षणं विसज्योंपायं चिंतयित्वा स्वर्णस्थालं रत्नसंभूतं कृत्वास राजकुलं गतः । नृपाग्रे स्थालं मुक्त्वा प्रणामं कृतवान् । ततोऽवनिपालेन पृष्टं श्रेष्ठिन्, समागमनकारणं कथय ? श्रेष्ठिना विनयनम्रशिरसि करकुड्मलं कृत्वा भणितं - राजन्नद्य चातुर्मासिको मया श्रीवर्द्धमानस्वामिनोऽग्रे नियमो गृहीतोऽस्ति । एवं पञ्च दिने समग्रजिनायतनेषु चैत्यपरिपाटी विधिवत्कार्या, साधुवन्दना च । रात्रावेकस्मिन्प्रसादे महा
For Private And Personal Use Only