SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमकथा । अद्याभवत्सफलता नयनछयस्य देव त्यदीयचरणाम्बुजवीक्षणेन । अद्य त्रिलोकतिलक ! प्रतिभासते मे संसारवारिधिरयं चुलुकप्रमाणम् ॥ इति स्तोत्रशतसहस्रैर्जिनं मुनिनायक, गौतमस्वामिनं च स्तुत्वा यथोचितकोष्ठ उपविष्टः । जिनस्योपदेशामृतं पीत्वा ततोऽवसरं प्राप्य गौतमस्वामिनं प्रति श्रेणिको ब्रूते-हे स्वामिन्, कौमुदीसम्यक्त्वकथां कथय । भगवान् गौतम आह जम्बूद्वीपे भरतक्षेत्रे सौरदेश उत्तरमथुरायां राजा पद्मोदयः । तस्य राज्ञी यशोमतिः। तयोः पुत्र उदितोदयः। राजमंत्री संभिन्नमतिः। तस्य भार्या सुप्रभा । तयोः पुत्रः सुबुद्धिः । तत्राजनगुटिकादिविद्याप्रसिद्धो रूपखुरनामा चोरोस्ति । तस्य भार्या रूपखुरा । तयोः पुत्रः सुवर्णखुरः । तत्र राजश्रेष्ठी जिनदत्तः । तस्य भार्या जिनमतिः । तयोः पुत्रोऽहंद्दासः । तस्याईदासस्य भार्या अष्टौ । मित्रश्रीः, चन्दनश्रीः, विष्णुश्रीः, नागश्रीः, पद्मलता, कनकलता, विद्युल्लता, कुन्दलता, चैताः परस्परमहास्नेहा, दयादानतपःपरा वर्तन्ते ।। __ अथोदितोदयो राजा कौमुदीयात्रां प्रतिवर्षे स्ववनमध्ये कार्तिकमासे शुक्लपक्षे पूर्णिमादिवसे कारयति । तद्नुसारेण राज्ञा घोषणं दापितम्-"अद्य दिने समस्ता नगरस्थिताः स्त्रियो वनक्रीडां कर्तुव्रजन्तु। रात्रौ तत्रैव तिष्ठन्तु । पुरुषाः सर्वेपि नगराभ्यन्तरे तिष्ठन्तु । कोपि पुरुषो वनान्तरे स्त्रीणां पार्श्वे गमिष्यति चेत् स च राजद्रोही । नृत्यगीतविनोदादिसमन्वितां क्रीडां कृत्वा महत्संभ्रमेण स्वपुरमायान्तु।" एवं महता सुखेन राजा राज्यं करोति । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy