________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यांmannanawwwwwwwwnnnnnnnuuwwwww विपुलाचलपर्वतस्योपरि समस्तसुरेश्वरसमन्वितं जयजयादिरवपूर्णदिगन्तरालमन्तिमतीर्थकरश्रीवर्द्धमानस्वामिसमवसरणं दृष्टं । दृष्ट्वा हृष्टः सन् मनसि विचारयति-अहो परस्परविरुद्धजातानां यदेकत्र मेलापकं दृष्टं मया, तत् सर्वमस्य महापुरुषस्य माहात्म्यम् । तथा चोक्तम्" सारंगी सिंहशावं स्पृशति सुतधिया नन्दिनी व्याघ्रपोतं
मार्जारी हंसबालं प्रणयपरवशा केकिकांता भुजंगीम् । वैराण्याजन्मजातान्यपि गलितमदा जन्तवोऽन्ये त्यजन्ति
श्रित्वा साम्यैकरूढ प्रशमितकलुष योगिनं क्षीणमोहम् ॥" एवं ज्ञात्वा कानिचिदकालफलानि गृहीत्वा स वनपालक आस्थानस्थितमहामंडलेश्वरश्रेणिकस्य हस्ते दत्वा च तानि भणति स्मदेव, तव पुण्योदयेन विपुलाचलपर्वतस्योपरि श्रीवर्द्धमानस्वामिसमवसरणं समागतम् । एतच्छ्रुत्वासनादुत्थाय तदिशि सप्तपदानि गत्वा साष्टाङ्गं नमस्कृत्य तदनन्तरं वनपालस्याङ्गस्थितानि वस्त्राभरणानि परमप्रीत्या दत्तानि श्रेणिकनातिसंतुष्टेन । वनपालेनोक्तम्
“रिक्तपाणिर्न पश्येत राजानं देवतां गुरुम् ।
नैमित्तिकं विशेषेण फलेन फलमादिशेत् ॥" तत आनन्दभेरी दापयित्वा मागधेशः श्रेणिकः परिजनपुरजनसहितो महोत्सवेन समवसरणं जगाम । नृपः करौ कुड्मलीकृत्य पूना-स्तुतिं चकार ।
रथा- .
For Private And Personal Use Only