________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
श्रीवीतरागाय नमः ।
सम्यक्त्व-कौमुदी ।
श्रीवर्द्धमानमानम्य जिनदेवं जगत्प्रभुम् । वक्ष्येहं कौमुदीं नृणां सम्यक्त्वगुणहेतवे ॥ गौतमस्वामिनं स्तौमि गणेशं च श्रुताम्बुधिम् । स्तवीमि भारतीं तां च सर्वज्ञमुखनिर्गताम् ॥ गुरुवाये त्रिशुद्धाथ श्रुतसागरपारगान् । यत्प्रसादेन निःशेषं जाड्यं याति हृदिस्थितम् ॥
अथ जम्बूद्वीपे भरतक्षेत्रे मगधविषये सततं प्रवृत्तोत्सवं प्रभूतवरजिनालयं जिनधर्माचारोत्सवसहित श्रावकं भोगावतीनगरवद्राजगृहं नाम नगरमस्ति । तत्र समस्तराजमंडलीमंडितसिंहासनः सकलकलाप्रौढः समस्तराजनीतिसमन्वितः श्रेणिको नाम राजास्ति । तस्य तत्र पट्टमहिषी समस्तगुणसम्पन्ना जिनधर्मप्रभाविका महारूपवती चेलना नामास्ति । स च श्रेणिकोऽमरराजवद्राजते ।
एकदा वनपालेन वने परिभ्रमता परस्परनिबद्धवैरिणमश्वमहिषमूषकमार्जाराहिनकुलादीनामेकत्रमेलापकं दृष्टम् । साश्चर्यो भूत्वा मनसि विचारयति - अहो, किमेतत् ! एवं पर्यटता वनपालेन
For Private And Personal Use Only