________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमुक्तप्रकारेण मात्रस्यग्रहणं सिद्धं यतः सूत्रे अोधनियुक्त्यादौ प्राचार्यादीना कारणे आचार्यादिप्रायोग्यग्रहणेन कारणेन मात्रकस्य भोगोऽनुज्ञातो द्वितीयः पुनरुपभोग आर्थरक्षितात्प्राणदयार्थ प्रवृत्तः कारणाभावे तु मात्रपरिभोगे प्रायश्चित्तं तदेवाह| जत्तियमित्ता वारा दिणेण आणेइ तित्तिया लहुगा । अठहिं दिणेहिं सपयं निक्कारणमत्तपरिभोगे॥२२८॥
निष्कारणं कारणाभावे मात्रकस्य परिभोगे यावन्मात्रान्वारान् दिवसेनैकेन तेन मात्रेणानयति तावतो लघुका मासास्तस्य प्रायश्चित्तमष्टभिर्दिनैः स्वपदं पुनर्वतारोपणं मूललक्षणमष्टमं प्रायश्चित्तमिति भावः । | जेबेंति घेत्तव्यो न म्मत्तओ जे य तं न धारेंति। चउ गुरुगा तेर्सि भवे, प्राणादिविराहणा चेव ॥२२९॥
ये ब्रुवते न ग्रहीतव्यो मात्रको ये च तं मात्रकं न धारयन्ति तेषां प्रत्येक प्रायश्चित्तं भवति चत्वारो गुरुकाः आज्ञादयश्च दोषाः । प्राणविपत्तेः संयमविराधना वा अन्यच्च ॥ लोए होइ दुगंछा वियारपडिग्गहेण उड्डाहो । पायरियाई चत्ता, वारत्तथलीए दिठंतो । २३० ॥
यदि येनैव पतद्ग्रहेण भिक्षामटति तेनैव विचारे विचारभूमौ गच्छति तर्हि लोके जुगुप्माय जायते । तथा च सति भवति प्रवचनस्योड्डाह आचार्यादयश्च मात्रका परिभोगे त्यक्ताः अत्रार्थे वारतस्थल्या दृष्टान्तः । उपसंहारमाहतम्हा उ धरेयव्वो मत्तो य पडिग्गहो य दोमते। गणणाए पमाणेण य एवं दोसा न होतिए ॥२३१॥
For Private and Personal Use Only