________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवहारपत्रस्य
अष्टम विभायः। अ. "
यत एवं पात्रस्य मात्रकस्य चाऽधारणे दोषास्तस्मान्मात्रकं पतसहश्च द्वावप्येतो धारयितव्यौ । कथमित्याह गणनामधिकृत्य एकैकः प्रमाणत ओघनिर्युक्यभिहितप्रमाणेन एवं चैते अनन्तरोदिता दोषा न भवन्ति जइ दोण्ह चेव गहणं अइरेगपरिग्गहो न संभवति। अह देइ तत्थ एग हाणी उड्डाहगादीया॥२३॥
यदि द्वयोरेवपात्रकमात्रयोहणं ततो अतिरेकोऽतिरिक्तः पतद्ग्रहो न संभवति तदभावाच्च कथमध्वनिर्गतादीनां पतद्हं ददाति । देयस्पाभावादथात्मीयं तमेकं पतहमध्वगादीनां प्रयच्छति स्वयं तु केवलेन मात्रकेण सारयति तत पाह-अथ तयोः पात्रकमात्रकयोर्मध्ये एकं पतगृहं ददाति तदा द्वितीयस्य हानिरिति येनैव भिक्षामटति तेनैवविचारभूमावपि गच्छतीति लोके जुगुप्साप्रसङ्गतः प्रवचनस्योड्डाह आदिशदादाचार्योदयश्च तेन परित्यक्ता इति परिग्रहः तस्मादफलं सूत्रमनवकाशादिति प्राचार्यों ब्रवीति सूत्रनिपातः खन्वयं कारणिकः । किं तत्कारणमिति चेदत आहअतिरेगदुविहकारण अभिणवगहणे पुराणगहणे या अभिणवगहणे दुविहे वाचारिय अप्पच्छंदे य॥२३३॥
द्विविधेन प्रकारेण द्वाभ्यां कारणाभ्यामतिरेकस्यातिरिक्तस्य पत्तद्हस्य संभवस्तद्यथा-अभिनवग्रहणेन पुराणग्रहणेन च तत्र य तदभिनव ग्रहणं तत् द्विविधं द्विप्रकारं तद्यथा-व्यापारिताश्च गृहन्ति । आत्मच्छन्दसा च गाथायां सप्तमी तृतीयार्थे प्राकृतत्वात् तच्च द्विविधमप्यभिनवग्रहणमेभिः कारणैर्भवति । भिन्ने व ज्झामिए वापडिणीए तेण साणमादिहिते। सेहो य संपयासुय अभिनवगहणं तु पायस्स ॥२३॥
॥४३॥
For Private and Personal Use Only