________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
..एवं हेमन्तग्रीष्मसूत्रार्थों वृद्धावाससूत्रार्थश्च भावनीयः नवरं वृद्धावाससूत्रे चतुरहं वा पञ्चाहं वेत्यधिकं वक्तव्यमधुना नियुक्तिविस्तरः। सोपुण उउम्मि घेषइ संथारो वुड्डावासे वा।ठाण फलगादी वा उउम्मि वासासुय दुवे वि॥७॥
स पुनः संस्तारकः स्थानं स्थानरूप ऋतुबद्धे वर्षाकाले वृद्धावासे च यथानुरूपे गृह्यते । तद्यथा-ऋतुबद्धे कालेऽवकाशे गृह्यते, वर्षावासे च वृद्धावासे च निवातस्थानेऽपि, तथा ऋतुबद्धे काले ऊर्णादिमयः संस्तारकः परिगृह्यः पुरुषविशेष ग्लानादिकमपेक्ष्य फलकादिर्वा वर्षावासे द्विकावपि द्वावपि संस्तारको वक्ष्यमाणलक्षणो गृह्णीयात् । उउबद्धे दुविहगहणा, लहगो लगाय दोस आणादी। झामियहियवक्खेवे संघट्टणमादिप लिमंथो ॥८॥
द्विविधः संस्तारकः परिशाटिरूपोऽपरिशाटिरूपश्च । तत्र पारिशाटिरूपो द्विविधो झुपिरोऽझुपिरश्च तत्र शान्यादि पलालवणमयो झुषिरः कुशवन्ककादिरूपोऽझुषिरः, । अपरिशाटिरूपो द्विविधा-एकाङ्गिकोऽनेकाङ्गिकश्च । एकाङ्गिकोपि द्विविधः सङ्घातितोऽसंघातितश्च । तत्रासङ्घातित एकफलकात्मकः संघातितोव्यादिफलक संघातात्मकः अनेकाङ्गिकः कंथिका प्रस्तारात्मकस्तत्र यदि ऋतुबद्धेऽझुषिरं परिशार्टि संस्तारकं गृह्णाति तदा तस्य प्रायश्चित्तं लघुको मासः । झुपिरंगृह्णतश्चत्वारो लघुका अपरिशाटिमपिगृङ्खतश्चत्वारो लघुका न केवलं प्रायश्चित्तं किन्त्वाज्ञादयश्च दोपाः । तथा यद्यग्निना सध्याम्यते तदापि प्रायश्चित्तं चत्वारो लघुकाः व्याक्षेपणे वा स्तेनैरपहृते चतुर्लघुकं अपरिशाटौ ध्यामिते हृते वा मासलघुस्ततोऽन्यं संस्तारकं मृगयमाणानां सूत्रार्थपलिमन्थः तथा तस्मिन् संस्तारके ये प्राणजातय आगन्तुकास्तदुद्भूता वा तान् संघट्टयति अपद्रावयति
For Private and Personal Use Only