________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम विभामः।
अ.उन
भीव्यव- विश्रम्य उच्चारं प्रश्रवणं कृत्वा यदा गन्तव्यं भवति तदा सिंहावलोकनेन पश्चादवलोक्य गन्तव्यं । यदिपुनरवलोकनं हारसुत्रस्य * नकरोति तदा प्रायश्चित्तं तस्य लघुको मासः,। अधिकरणदोषाश्च प्रागुक्ताः कथमपि विस्मरणतः पतिते संभवन्ति । आज्ञापीठिका- दयश्च माझाभङ्गादयश्च दोषः तथा यदि कथमपि विस्मरणतः पतितं स्यात्ततस्तग्रहणाय प्रतिनिवर्तितव्यः । यदि मन्यतेकिं नंतर तेनेति व्युत्सृजति तदा मासलघुकं आज्ञाभङ्गादयश्च दोषाः । एतदेवाह
। पम्हुठे गंतव्वं आगमणे लहगो य दोस श्राणादी। निकारणमि तिन्नि उ पोरिसीकारणे सुद्धो॥१४॥ ॥३४॥
पम्हुठे कथमपि विस्मरणतः पतिते सिंहावलोकनेन च दृष्टे नियमतस्तदानयनाय पश्चाद्गन्तव्यं । अगमने प्रायश्चित्नं लघुको मासः । अधिकरणदोषाश्च प्रागुक्ता आज्ञादयश्च तथा निष्कारणमिति कारणस्वाभावो निष्कारणं तस्मिन् यदि नास्ति वर्तमानस्य प्रत्यवाय इत्यर्थः । तदा अवश्यं निवर्तितव्यं तिमि उत्तियदि प्रथमायां पौरुष्यां विस्मरणतः पतितं चरमायां च पौरुष्यां स्मृतं तत्र यदि निःप्रत्यवायमन्तरा न वामोऽस्ति यदा निवृत्य गृहीत्वा आनेतन्यमथ सूर्यास्तसमयवेलायां स्मृतं यथाऽमुकं मे विस्मरणतः पतितमिति तदा श्राद्यान् त्रीन् यामान्-उषित्वा चतुर्थे यामे प्रतिनिवृत्त्यानेतव्यं प्रत्यवायाभावे, कारणे तु प्रत्यवायलक्षणे अनिवर्तमानोऽपि स शुद्धः । एतदेव भावयतिचरमाए विनियत्तइ जइ वासो अस्थि अंतराचसिमे।तिमि विजामे वसिउं निवत्तइ निरच्चए चरमे।१८५॥
प्रथमायां पौरुष्यां विस्मरणतः पतिते तदानयनाय चरमायामपि पौरुष्यां निवर्तते । यदि च सिमे अन्तरावासोऽस्ति ।
॥३४॥
For Private and Personal Use Only