________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
अथ चरमायां दिनपौरुष्यां पतितं तदा रात्रे त्रीन यामान् उषित्वा चरमे यामे निरत्यये प्रत्यवायाभावतो निर्भये निवर्तते । कारणे शुद्धो इति व्याख्यानार्थमाहदूरं सो विय तुच्छो सावय तेणा नदी व वासं वा । इच्चाइ कारणेहिं करेंति उस्सग्गमो तस्स ॥१८॥
दूरमतिशयेन गतानां स्मरणपथमवतीर्णः पतित उपधिः सोऽपि वा उपधिरतिशयेन तुच्छः मुखपोतिकादिरूपोऽति जराजीर्णश्चेति भावः । अथवा अपान्तराले व्याघ्रादीनि स्वापदानि स्तेना वा शरीरापहारिण उपकरणापहारिणो वा नदी वापान्तराले वर्ष वा पतति । आदिशद्वात् म्लेच्छभयं वा अशिवं वेत्यादिपरिग्रह इत्यादिभिः कारणैस्तस्य विस्मरणतः पतितस्योपकरणस्य उत्सर्ग बोसिरामित्ति त्रिमणनपूर्वकं परित्यागं करोति । एवं करणे अधिकरणादयो न भवन्ति । एवं ता पम्हठो जेसि तेर्सि विही भवे एसो । जे पुणअन्ने पेच्छे तेसिं तु इमोविही होइ ॥ १८७॥
एवमुक्तेन प्रकारेण तावत् येषामुपधिर्विसरणतः पतितस्तेषामेषोऽनन्तरोदितो विधिर्भवति । ये पुनरन्ये साधर्मिकाः प्रेषन्ते तेषामयं वक्ष्यमाणो विधिर्भवति । तमेवाह-- दट्ट अगेण्हणे लहुगो दुविहो उ विहीउ नायममातो। विहा नायमणीया संविग्ग तहा असंविग्गा।१८८।
द्विविध उपधिरौधिक औपग्राहिकश्च । तस्य द्वितीयस्यापि पतितस्य दृष्ट्वा अवग्रहणे प्रायश्चित्तं लघुको मासो ये च पूर्वमुक्ता अधिकरणादयो दोषास्तेऽपि तस्य प्रसजन्ति । सर्व उपधिर्भूयोद्विधा ज्ञातोज्जातश्च । तत्र ज्ञातो नाम येषां स उप
For Private and Personal Use Only