________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तावति दूरे उद्धृत्य स्थातव्यं यत्र पथिकः पथा वजन् पथि ऊर्ध्वस्थितो वा साधुमुवृत्तं न पश्यति । एवं च पूर्ववर्णिता दोषाः समस्ता अपि परिहताः। द्वितीये पदे अपवादपदे पुनरुदतेने असति उद्वतेनाभावे पथ्यपि यतनया वच्यमाणया स्थानादीनि करोति स च तथा कुर्वन् तीर्थकराज्ञया प्रवृत्तेः शुद्ध इति, । साम्प्रतं उद्वर्तनाभावं यतना चाहसंकटहरियच्छाया असतीए गहितो वहिहितो अत्थे । उठे इव अपत्ते सहसा पत्ते ततो पठिं ॥१८१॥ __संकठो नाम पन्था स उच्यते यो वाट्योरपान्तराले तत्रोद्वर्तनस्यासंभवः अथवा चतसृष्वपि दिक्षु समन्ततो हरितकायः अथवा पन्थानमतिरिच्यान्यत्र सर्वथा छाया न विद्यते, । तत एतैः कारणैरुद्वर्तनासंभवे पथ्येव गृहीतोपकरणो मुहूर्तमात्रमूर्द्धस्थितो मार्ग एव च्छायाया विश्राम्येत, यदातु पथिकानागच्छतः पश्यति तदा तेपु तं प्रदेशमप्राप्तेष्वेव उत्तिष्ठति । तथा ते जानन्ति पूर्वमेष उस्थित इति । अथ सहसैव ते पथिका अदृष्टा एन संप्राप्तास्तदा तेषां पृष्टं दत्वा उत्तिष्ठति । यदा ते जानन्ति यथैष आत्मव्यापारेणोस्थित इति । एवं मिथ्यात्वादिदोषाः परिहता भवन्ति । भुंजणपियणुच्चारे जयणं तत्थ कुव्वती। उदाहडाय जे दोसा पुवं तेसु जतो भवे ॥ १८२ ॥ ___ भोजने पाने उच्चारे च यतनां तत्र पथि करोति कथमित्याह-उदाहृता ये पूर्व दोषास्तेषु यतो भवेत् न भवन्ति तथा यतनेति भावः । गंतव्य पलोएउं अकरणिलहुतो उ दोस आणादी। पम्हुछो वासट्ठो लहुतो प्राणादिणो चेव ॥१८३॥
For Private and Personal Use Only