________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। ॥१८॥
अष्टम विभागः। ५० उ०
दण्ड विदण्डे लट्ठी विलट्री चम्मोय चम्मकोसे या चम्मस्सय जेच्छेया थेरा वि य जे जराजुम्ला ॥२५॥
दण्डो विदण्डः यष्टिवियष्टिः चर्म चम्मकोशः चर्मणश्च ये च्छेदास्ते चर्मपरिच्छेदनकास्ते च व्याख्ययास्तत्र प्रथमतः स्थविरपदमाचक्षते स्थविरा अपि च ये जराजीर्णास्ते द्रष्टव्याः। श्रायवताण निमित्तं छत्तं दंडस्स कारणं वुत्तं । कीस ठवेई पुच्छा स दिग्घथूरो उ दुग्गट्टा ॥१६॥
तप उष्णन परितापना तस्य त्राणार्थ च्छत्रकं गृह्णाति, दण्डस्य उपलक्षणमेतत् । विदण्डादीनां ग्रहणे कारणं पूर्व निशीथे कल्पे च भाणितं । अथ कस्माद्दण्डं स्थापयति । एषा पृच्छा । अत्रोत्तरं दण्डको दीर्घः स्थिरश्च । ततस्तं दुर्गे व्याघ्रादि परिवारणनिमित्तं परिवहति । सम्प्रति भाण्डादिपद व्याख्यानार्थमाहभंडं परिग्गहो खलु उच्चारादी य मत्तगा तिमि।अहवा भंडग गहणे णेगविहं भंडगं जोग्गं॥९६॥ (ख)
भाण्डकं खलु पतद्गह उच्यते उच्चारादौ च आदि शब्दात् प्रश्रवणे श्लेष्मणि चेति परिग्रहस्त्रीणि मात्रकाणि भवन्ति । तद्यथा-उच्चारमात्रकं प्रश्रवणमात्रकं श्लेष्ममात्रकं चेति । अथवा भाण्डकग्रहणेनानेकविध भाण्डकं गृहीतं द्रष्टव्यं । चेलग्गहणे कप्पा तसंथावर जीवदेहनिप्फन्ना। दोरेयराव चिलिमिलि चम्म तलिगावकत्ति व्व ॥९७॥
चेलग्रहणेन त्रसस्थावरजीवशरीरनिष्पना ऊर्णिकत्रिकरूपा इत्यर्थः कल्पाः परिगृह्यन्ते । चिलिमिलिनमिति जवनिका सादवरकमयी इतरा वा द्रष्टव्या चर्ममयतलिका उपानत् कृत्तिवा औपग्रहिकोपग्रहण विशेषरूपा ।।
For Private and Personal Use Only