________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा चम्मेवा चम्मपलिच्छेयणएवा अविरहिए ओवासे ठवेत्ता गाहावइकुलं पिंडवायपडियाए पविसित्तएवा निक्खमित्तए वा, कप्पइण्हं संनियहचारीणं दोच्चंपि ओग्गहं अणुन्नवेत्ता परिहरित्तए सू।५।
अस्य सूत्रस्य संबंध प्रतिपादनार्थमाहवुडो खलु समधिगतो अजंगमो य जंगमविसेसे। अविरहितो वावुत्तोसहायरहिए इमा जयणा ॥९॥
अनंतर सूत्रे वृद्धः खलु समधिकृतोऽनेनापि सूत्रेण वृद्ध एव उच्यते स्थविर वृद्ध शब्दयोरेकार्थत्वात् ततः पूर्वसूत्रादनतरमस्यसूत्रस्योपन्यासो नवरं स पूर्व सूत्रे वृद्धोऽजंगमो जंघाबलपरिहान उक्तोऽत्र तु जङ्गमविशेषो न सर्वथा जवाबल परिहीनो वक्तव्योऽथवायं विशेषः पूर्वसूत्रे योधिकृतो वृद्ध उक्तः ससहायैरविरहित उक्तोऽवतु यः सहाय रहितस्तस्य सामाचारी प्रतिपाद्या तथा चाह-सहायरहिते इयमधिकृतसूत्रप्रतिपाद्या यतना अनेन सम्बधेनायातस्यास्य व्याख्या-स्थविराणां जरसा जीर्णानां स्थविरभूमि प्राप्तानां सूत्रार्थतदुभयोपेतानामित्यर्थः । कल्पने दण्डविदण्डादिभेदमिन्नं भण्डकं अनेक विधानि उपकरणानि च्छत्रकं प्रतीतं मात्रकमुच्चारादिसकं लष्टिका दण्ड विशेषः । चेलंकन्पादि चर्मतलिकादिरूपं चर्मपरिच्छेदन बधा । एतान् अविरहिते अवकाशे स्थापयित्वा गृहपतिकुलं पिण्डपातप्रतिपाताय प्रवेष्टुं वा निःक्रमितुं वा कन्पते सभिवृत्तवाराणां भिक्षाचर्यातः प्रत्यागतानां स्थाविराणां द्वितीयमपि वारमवग्रहमनुज्ञाप्य परिहर्तुं धारणया परिभोगेन चेत्येष सूत्राक्षरमात्रार्थः। विशेष व्याख्या तु भाष्यकृता क्रियते तत्र यानि पदानि व्याख्येयानि तानि दर्शयति ।
For Private and Personal Use Only