________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अष्टम | विभाग।
भी व्यवहारसूत्रस्य पीठिकानंतरः। ॥१७॥
कार्ये समाप्ते सति नियमात्संस्तारकोऽर्पयितव्यो अनर्पणे प्रायश्चित्तं चत्वारो लघुकाः आज्ञादयश्च दोषाः । अत्रापि द्वितीयपदमपवादपदं यदि रोगस्योत्थानं प्रवर्तते । स्तेनैर्वापहृतोऽग्निना वा कथमपि दग्धस्तदानार्पण मिति । तदेवं भावितं वर्षावाससूत्र, (सं) प्रति वृद्धावाससूत्रभावनार्थमाहवडावासे चेवं गहणादि पदाउ होंति नायव्वा । नाणत्तखेत्तकाले अप्पडिहारी य सो नियमा ॥२॥
वृद्धावासेऽप्येवं पूर्वोक्तेन प्रकारेण ग्रहणादीनि पदानि भवन्ति ज्ञातव्यानि भवन्ति । किमुक्तं भवति । यथा प्राक् वर्षावासे ग्रहणानुज्ञापनकाङ्गिका कुचप्रायोग्य लक्षणानि पश्च द्वाराण्यभिहितानि । तथा वृद्धावासेऽप्यनुगन्तव्यानि तु शब्दो विशेषणे स चैतद्विशिनष्टि । वृद्धवावासे ऋतुबद्धेऽप्येष एव विधिरिति नवरमत्र नानात्वं क्षेत्रे काले च तथा नियमादप्रतिहारी स वृद्धावासयोग्यः संस्तारको गृहीतव्यः । सम्प्रत्येतदेव स्पष्टं विभावयिपुराहकाले जा पंचाहं परेण वा खेत जाव बत्तीसा । अप्पडिहारी असती मंगलमादीसु पुव्वुत्ता ॥९३॥
इह वर्षावासे संस्तारकस्यानयने कालत उत्कर्षेण त्रीणि दिनान्युक्तानि । अत्र तु वृद्धावासे काले कालमधिकृत्य यावत्पश्चाहं पञ्चदिनानि ततः परेण वा आनयनं द्रष्टव्यम् । क्षेत्रतो यावत् द्वात्रिंशत् योजनानि तथा अप्रतिहारिणोऽसत्यभावे संस्तारकस्य यानि मङ्गलादीनि पूर्वमुक्तानि तानि प्रयोक्तव्यानि
सूत्रम्-थेराणं थेरभूमिपत्ताणं कप्पइ दंडए वा भंडए वा छत्तए वा मत्तए वा लट्रिया वा चेले
For Private and Personal Use Only