________________
Shri Mahavir Jain Aradhana Kendra
****@************+++*+
www.kobatirth.org
अवरका तहको सगच्छेयणं तु जे वद्धा । तेच्छिन्न संघट्टा दुखंड संधारण हेउं वा ॥ ९८ ॥ चर्ममयः कोशः चर्मकोशः सोङ्गुष्टस्य यदि वा अवरपाणु पाष्णिका तस्याः परिरक्षणाय धियते । अथवा नखरदनादे रौपग्रहिकोपकरण विशेषस्य चर्ममयः कोशश्चर्मकोशः ये तु बधास्ते चर्मपरिच्छेदन कमित्युच्यते । ते च च्छिन्नसन्धानार्थमथवा द्विखण्डसन्धानहेतोर्धियन्ते । तदेवं विषमपदानि व्याख्यातानि । सम्प्रति दण्डादि उपकरणस्थानचिन्तां चिकीर्षुराहजय ठवेइ असु नयबेई देजहेत्थ उहाणं । लहुगो सुत्ते लहुगा हियंमि जं जत्थ पावति उ ॥ ९९॥
यदित्वशून्ये अविरहिते प्रदेशे दण्डायुपकरणं स्थापयति न च कस्यापि संमुखमेवं ब्रूते अत्र दद्यादवधानमुपयोगमिति, तदा तस्य प्रायश्चितं लघु मासः । श्रथ शून्ये स्थापयति तदा चत्वारो लघुकास्तथा शून्ये मुक्ते स्तेनैश्चापहृते यत् यत्र जघन्ये मध्यमे उत्कृष्टे वा उपकरणे प्रायश्चित्तमुक्तं तत् प्राप्नोति । अत्र परस्यावकाशमाह - एयं सुतं फलं जं भणियं कप्पत्ति थेरस्स । भाति सुत्त निवातो अति महलस्स थेरस्स ॥ १०० ॥
चोदकः प्राहः - यद्येवमशून्ये शून्ये च प्रदेशे उपकरणे दोषस्तर्हि तत्सूत्रमफलविषयं यदुक्तं कन्पते अविरहिते अवकाशे स्थापयित्वेत्यादि सूरिराह-भण्यते अत्रोत्तरं दीयते । अस्य सूत्रस्य निपातो अतिमहतोऽतिशयेन गरीयसः ।
कंपण जे ठवेउण कारणेणं तु । हिंडइ जुण्णमहलो तं सुख वोच्छं समासेणं ॥ १०१ ॥ सोऽति वृद्धो महान् गच्छस्यानुकम्पनीयः परं येन कारणेन सजीर्ण महान् एकाकीभूतोऽविरहिते प्रदेशे उपकरणं स्थाप
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
***********