SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie दृष्टो दृष्ट्रा च संस्तारक स्वामिनं संस्तारक याचिष्ये इत्यध्यवसितः सोऽन्यस्य न कल्पते । एवं च संस्तारको न दृष्टस्ततस्त्वं मम प्रियतया तस्य याच्यमानस्य मा न संस्तारकममुं दद्यात्ततस्तस्मिन् प्रतिषिद्धे एष मम भविष्यति । अत्रेयमाभवनचिन्ता यदि विपरिणामकरणे लब्धस्ततस्तस्य नाभवति । किन्तु पूर्वस्यैव संघाटस्य अथवा द्वितीयोविपरिणामनप्रकारस्तमाह-गुरु सकाशे विकट्यमानमन्यस्य वा संघाटस्य शिष्यमाणं संस्तारकं श्रुत्वा अन्यः संघाटकस्तत्र गत्वा संस्तारक स्वामिनं पूर्व कथया धर्मकथाकथनेनावृत्यात्मानुकूलं कृत्वा पश्चाद्वि परिणामयति । कथमित्याह-संथारगदानेत्यादि । संस्तारक स्वामिनं पूर्व संस्तारकदानफलादिलाभिन । ब्रूतेऽमुकं संघाटं याचमानं त्रीन्वारान् प्रतिषिध्य तदनन्तरं मम संस्तारकं देहि । एवं विपरिणामकरणतो लब्धे स पूर्वस्यैव संघाटकस्या भवति न पाश्चात्यस्य । अत्र प्रायश्चित्तविधिमाहएवं विपरिणामिएण लभति बहुगोय हुँति सगणिच्चे। अन्नगणिज्जे गुरुगामायनिमित्तं भवे गुरुगो ।।४।। एवमुक्तेन प्रकारेण विपरिणामितेन स्वामिना यदि लभते स्वगणसक्तसाधुस्तदातस्य प्रायश्चित्तं चत्वारो लघुकाः अन्यगण सक्ते चत्वारो गुरुकास्तथा स्वगणसत्को वा अन्यगणसत्को वा विपरिणम्यलब्ध्वा यदि पृष्टः सन् विपरिणामनमपलपति । तदा मायानिमित्तो मायाप्रत्ययो भवत्यधिको गुरुको मासः । सम्प्रति व्यवच्छिन्नद्वारमाहअहपुणजेणं दिट्ठो अन्नलद्धोउ तेणसंथारो। छिन्नो उवरिभावो ताहेजो लभतितस्सेव ॥ ५० ॥ अथ पुनर्येन दृष्टः संस्तारक स्तेनान्यो लब्धः संस्तारकस्तस्य पूर्वदृष्टस्योपरिभावो व्यवसायश्छिनः व्यवच्छिन्न स्ततोयः For Private and Personal Use Only
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy