________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भी व्यवहारसूत्रस्य पीठिका नंतरा।
अष्टम विभागः। प्र०
प्रथमसचाटके संस्तारकं दृष्ट्वा स्वामिनमनुपलभ्या याचित्वैव वसती प्रत्यागते द्वितीयः संघाटोऽशठभावोऽन्येन पूर्व दृष्ट इत्यजानानो यथाभावेन तमन्यदृष्टं संस्तारकं स्वामिनमनुज्ञाप्य लब्ध्वा समानयति कस्य भवतीति चेदत आह-स खलु नियमात्पूर्वस्य संघाटकस्य येन पूर्व दृष्टो न पाश्चात्यस्य येन लब्धः समानीतः केचित् उभयोरपि संघाटयोराभवनमधिकृत्य साधारणं ब्रूबते । गतं यथा भावेनेति द्वारमिदानीं तस्यैव वचनतः श्रुत्वेति द्वारव्याख्यानार्थमाह-- तइतोउ गुरुसगासे विगडिजं तं सुणेत्तुं संथारं । अमुगत्थ मए दिट्टो हिंडंतो वासीसं तं ॥ ४५ ॥
तृतीयः सङ्घाटः प्रथमेन सङ्घाटकेन कापि संस्तारकं दृष्ट्वा स्वामिनमनुपलभ्य वसती प्रत्यागतेन गुरुसकाशे आचार्यस्य समीपे दष्टो मया संस्तारकः परं स्वामी न दृष्ट आगतं सन्तं याचिष्ये इति संस्तारकं विद्यमानमालोच्यमानं श्रुत्वा यदि वा भिक्षां हिण्डमानोऽन्यस्य सङ्घाटकस्य शास्ति कथयति यथा अमुकत्र मया दृष्टः परं स्वामी नास्तीति न याचित: स्वामिन्यागते याचिष्यामि इति शिष्यमाणं श्रुत्वागंतूण तहिं जायइ लद्धंमी वेति अम्ह एस विही। अन्नदिठो न कप्पइ दिठो एसो उ अमुगेणं॥ ४६॥ मा देजसि तत्थेयं पडिसिद्धं तंमि एसुमज्झं तु । श्रमा धम्मकहाए आउद्देऊण तं पुव्वं ॥४७॥ संथारगदाण फलादि लोभियं बेंति देहि संथारं । अंगति तिन्निवारा पडिसेहेऊण तं मज्झं ॥४८॥
गत्वा तत्र संस्तारक स्वामिनं संस्तारकं याचते याचित्वा लब्धे तं परिणामयति यथा एषोऽस्माकं विधिराचारोऽन्येन
For Private and Personal Use Only