________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जह कारणे तणाई उउबद्धंमि उहवंति यहियाई। तह फलगाणि विगेरहइ चिक्खल्लादीहिं कजेहिं॥२३॥
यथा कारणे देशादिलक्षणे ऋतुबद्धे काले तृणानि गृहीतानि तथा ऋतुबद्ध एव काले चिक्खन्नादिभिः कारादि शब्दात्प्राणसंसक्तिहरितकाय परिग्रहफलकान्यपि गृह्णाति । तत्र यतनामाहअज्भूसिरमविद्धफुडियअगुरुय अणिसठवीणगहणेण । प्राया संजमे गुरुगा सेसाणं संजमे दोसा ॥२४॥
अचपिरो झुषिररहितोऽविद्धो वेधरहितोऽस्फुटितोऽराजितोऽगुरुको गुरुभाररहितोऽनिसृष्टः प्रातिहारिकः । एतेषां च पञ्चानां पदानां द्वात्रिंशद्भङ्गाः । ते च प्रागिव प्रस्तारतः स्वयं ज्ञातव्याः । अत्र य: प्रथमो भङ्गः सोऽनुज्ञातस्तत्र दोषा| भावात् अयं लघुकः शेषदोपविनिर्मुक्तश्च ततो यथा वीणा लघुकत्वात् दक्षिणहस्तेन मुखं विवक्षितं स्थानं नीयते इति वाक्यशेषः शेषा एक त्रिंशत् भङ्गा नानुज्ञाताः । तत्र गुरुके आत्मविराधनाप्रत्ययं च प्रायश्चित्तं चतुर्गुरुकं संयमविराधना पुनरेव भवति । गुरुके हस्तात्पतिते एकेन्द्रियादीनामुपघातोत्र स्वस्थान प्रायश्चित्रं शेपेषु संयमे दोषाः संयम विराधना । ततस्तत्र प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः। अज्झुसिरमादीएहिं अणिसिहं तु पंचिगा भयणा। अह संथडपासुद्धे विवजए होंति चउलहुगा ॥२५॥ _ अषिरादिभिः पादैरारभ्य यावदनिसृष्टमिति पञ्चमं पदं तेषु पञ्चसु पदेषु प्रथमभङ्गरूपेषु इयं वक्ष्यमाणा भजना विकल्पना । तामेवाह-अह संथडेत्यादि शय्यातरेण य उपाश्रयो दत्तस्तस्मिन् यो यथावस्तृतः प्रथमभङ्गरूपः संस्तारक:
For Private and Personal Use Only