________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रस्य पीठिका:नंतरः।
अष्टम विभागः। प्र० उ०
अन्नोन्नि सम्बइ तहिं पाणदयठाए तत्थ हत्थो वा । निक्कारणमगिलाणे दोसा च ते चे चेव य विकप्पो॥२०॥
अन्यस्तत्र संस्तारके प्राणदयार्थ निषीदति हस्तो वा तत्र क्रियते । अत्र भावना प्रागेव कृता । एतैः कारणैर्यथोक्तरूपसंस्तारक ऋतुबद्धे काले निष्कारणं देशादि कारणमन्तरेणाग्लानेज्लानस्य तृणमयसंस्तारकग्रहणे त एव पूर्वोक्ता दोषा विकल्पो विकल्पदोषश्च । अत्र विकल्पग्रहणेन कम्पप्रकल्पावपि सूचितौ । तेषां व्याख्यानमाहअत्थरणवजितो उ कप्पो उहोति पहृदुगं। तिप्पभिई तु विकप्पो अकारणेणं च तणाभोगो ॥२१॥
भास्तरणवर्जितः कल्पः किमुक्तं भवति यजिनकम्पिका भनवस्तृता रात्रावुक्कुडकास्तिष्ठन्ति एष कन्प इत्यभिधीयते तत्पुनः पट्टद्विकं भवति । संस्तारोत्तरपट्टयोरुपरियत्सुप्यते इत्यर्थः एष भवति प्रकल्पः । यानि पुन त्रिप्रभृतीनि संस्तारके प्रस्तारयति एष विकल्पः । यच्च अकारणेन कारणमन्तरेण तृणानां भोगं क्रियते एषोऽपि विकल्पः । अथवान्यथा कम्प प्रकल्प व्याख्यानमाहअहवा अज्झसिरगहणे कप्पोकपकप्पो उ कजे। झुसिरे अझसिरे वा, होइ विकप्पो अकजंमि ॥ २२ ॥
अथवेति प्रकारान्तरोपदर्शने यत्कारणेसमापतिते अझुषिराणि तृणानि गृहन्ति । एष कन्पो यत्पुनः कार्य समापतिते झुषिराण्यपि तृणानि गृह्णाति एष प्रकल्पः। यत्पुनरकार्येज्झुषिराणि अझुषिराणि वा गृहाति एष भवति विकल्पः । एवं तावत्तृणानामृतुबद्धे काले कारणेन गृहीतानां यत्तनोक्ता । सम्प्रति कारणैरेव ऋतुबद्धे काले फलकरूपस्य संस्ताकस्य ग्रहणे यतनां चाह
For Private and Personal Use Only