________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८१
१.८.१.२. ]
[ I.113.2. प्रसवाय भवति। एवमस्याः। उषसः । रात्रिः। योनिम्। अरिचदात्मनोऽन्ते स्थानं प्रकल्पितवती। रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । समानबन्धू अमृतै अनूची द्यावा वर्ण चरत आमिनाने ॥२॥ रुशद्वत्सा। श्वेतवत्सा। श्वेता। उषाः। आगात् सूर्य वत्समाह साहचर्यात् ।
१. उषस उत्पत्तये Sy. जन्मने Sk. २. तदर्थ...स्थानं स्वकीयापरभागलक्षणम् ।
... यद्वा प्रसूता रात्रिसकाशादुत्पन्नोषाः ... सूर्यस्य ... प्रसवाय जन्मने यथा भवत्येवं रात्रिरपि...उषसो यज्जन्म तदर्थ ...स्वापरभागलक्षणं स्थानं कृतवतीSy.
आत्मैकदेशमपररात्रलक्षणम् Sk. ३. अनिच. M. प्रकल्पितवतीत्यर्थः । यथा रात्रिरादित्यास्तमयादनन्तरं स्वयमुत्पन्ना, एवं तदनन्तरमुषा जनिष्यत इत्येवमुषसः स्थानं प्रकल्पितवतीत्यखिलार्थः । अथवा यथा प्रसूतेत्युषा उच्यते न रात्रिः। सवितुरित्यपि सवायेत्येतेन सम्बध्यते । उषस इत्यपि तादयें चतुर्थी । यथा प्रसूतोत्पन्ना सवितुः सवाय जन्मने । आत्मनोऽनन्तरमुषा ह्यादित्यं जनयति । अतस्तदर्थवास्या उत्पत्तिरिति व्यपदिश्यते । एवं रात्रिरुषस उषसोऽर्थम्। उषसो जन्मार्थमित्यर्थः। योनिमारेक् स्थानं प्रकल्पितवती । नाप्रकल्पिते रात्र्याः स्थान उषसो जन्म सम्भवति । एवमियं रात्रैः स्तुतिः । उषसो वा। रात्रिरस्याः
स्थानं प्रकल्पितवती Sk.. ४. ०न्त P. * श्वेत्या। आ। अगात्। अरैक्। ॐ
इति। PP. + समानबन्धू इति समान ऽबन्धू । अमते
इति। अनूची इति। PP. + आमिनाने इत्याऽमिनाने। PP. ५. रुशद्वत्सा सूर्यवत्सा । शदिति वर्ण-
नाम । रोचतेवलतिकर्मणः । सूर्यमस्या वत्समाह । साहचर्यात् । रसहरणाद्वा । रुशती श्वेत्यागात् । श्वेत्या श्वेततेः । अरिचत् कृष्णा सदनान्यस्याः कृष्णवर्णा रात्रिः । कृष्णं कृष्यतेः । निकृष्टो वर्णः । अथैने संस्तौति । समानबन्धू समानबन्धने । अमृते अमरणधर्माणौ। अनूची। (अनूच्याविति)। इतीतरेतरमभिप्रेत्य । द्यावा वर्ण चरतः । ते एव द्यावौ । द्योतनात् । अपिवा द्यावा चरतस्तया (सह) चरत इति स्यात् । आमिनाने (आमिन्वाने)। अन्योन्यस्याध्यात्म कुर्वाणे N. 2. 20. रुशन् दीप्तः सूर्यो वत्सो यस्याः सा तथोक्ता । यथा मातुः समीपे वत्सः सञ्चरत्येवमुषसः समीपे सूर्यस्य नित्यमवस्थानात्तद्वत्सत्वम्। अथवा यथा वत्सो मातुः स्तन्यं रसं पिबन हरति, एवमुषसोऽवश्यायाख्यं रसं पिबन् वत्स इत्युच्यते Sy. रुशच्छब्दो दीप्तिवचनः । वत्स इत्यावित्य उच्यते । स एषसो वत्सस्थानीयो पत्यत्वात्। कथमपत्यत्वम् ? श्रुतेर्दर्शनात् । ... यद्वा प्रातः प्रातरुषसः सकाशादादित्यो जायते । तदभिप्रायमस्यापत्यत्वम् । असत्यपि चापत्यत्वे तदीयरसहरणसामान्यादेष वत्सव्यपदेशः। यथा हि पशोर्वत्सः पयआख्यं रसं पिबन्नाहरति, एवमसावादित्य उषसोऽवश्या
याख्यम् । दीप्तादित्याख्यवत्सा Sk. ६. रुशती स्वयमपि च दीप्ता Sk. ७. उविता Sk.
For Private and Personal Use Only