________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४७
१.६.२१.१.]
[ I.9I.II. मरामहे। प्रियस्तोत्रः । वनानां पालयितानुदकानाम् ।
त्वं सौम महे भगं त्वं यून ऋताय॒ते । दक्षं दधासि जीवसे ॥७॥ ___ त्वं सोम महे। त्वम्। सोम! वृद्धाय। धनं दधासि। त्वम्। यूने च। यज्ञमिच्छते । बलं च। यच्छसि । जीवनाय। त्वं नः सोम विश्वतो रक्षा राजनघाय॒तः । न रिष्येत्त्वावतः सखा ॥८॥
त्वं नः सोम। त्वम् । अस्मान् । सोम! सर्वतः। पापमिच्छतः । रक्ष। न । विनष्टो भवति।
त्वत्सदृशस्य। सखा ।
सोम यास्तै मयोभुव ऊतयः सन्ति दाशुषे । ताभिर्नोऽविता भव ॥६॥
सोम यास्ते। सोम ! यानि। तव। सुखस्य भावयितृणि। पालनानि। भवन्ति। यजमानाय । तैः । भव । अस्माकम् । रक्षिता। इमं यज्ञमिदं वचौ जुजुषाण उपागहि । सोम त्वं नौ वृधे भव ॥१०॥
इमं यज्ञम् । इमम् । यज्ञम् । इदं च । स्तोत्रम् । प्रीयमाणः । आगच्छ। सोम! त्वम् । अस्माकम् । वर्धनाय भव। सोम गीर्भिष्ट्वा वयं वर्धामो वचोविदः। सुमृळीको न आ विश ॥११॥
सोम गीभिः। सोम! स्तुतिभिः । त्वाम् । वयम् । वर्धयामः । स्तोत्रविदः। सुष्ठु सुखयिता सन् । अस्मान् । आविश।
२०
१. न वयं मारा० M. म्रियामहे Sy. | १२. V. Madhava ignores राजन् नियतिरत्र सामर्थ्यादन्तर्णीतसन्नर्थः। १३. चरुपुरोडाशादीनि दत्तवते Sy.
न शीघ्रं मुमूर्षाम इत्यर्थः Sk.. | १४. अस्माभिः क्रियमाणम् Sy. २. बहुभिः स्तोतव्यः Sy.
१५. इदानी क्रियमाणं स्तुतिलक्षणं वचनम् Sy. ३. वनानामोषधिवनस्पतिरूपाणां पतिः | १६. सेवमानः सन् Sy. सेवितुमित्यर्थः Sk. ____ पालयितासि Sy. ४. स्वामी वा Sk. | १७. प्राचीनवंशलक्षणं गृहं प्राप्नुहि Sy. ५. ०है P. ६. स्थविरायेत्यर्थः Sk... १८. यज्ञस्य Sy. ७. ददासि Sk. ८. उपभोगसमर्थम् Sy. | १६. अनुष्ठातारः Sy.
वृद्धि वा Sk. ६. अघं पापम् । तद्धेतुकं २०. सम्यक् स्तोतुं ज्ञातार इत्यर्थः Sk.
दुःखम् ... अस्माकं कर्तुमिच्छतः Sy. २१. आगच्छ Sy. प्रविशोपविश याज्यलक्षणं १०. र M. ११. वयं च तव सखायः Sk. I हविः प्रतिग्रहीतुम् Sk.
For Private and Personal Use Only