SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.87.2.] 6 स्तृतीयसवनेऽन्वयात्। ऋजीषिणः । पर्याप्ततमाः । नेतृतमाः । आभरणैः। व्यक्ता अभवन्। के। चित् । रश्मय इव । प्रभाभिरिति मरुतो वदति । ४२८ उ॒प॒ह्म॒रेषु यदचि॑ध्वं य॒यिं वय॑व मरुत॒ः केन॑ चित्प॒था । श्चोत॑न्ति॒ कोशा॒ उप॑ वो॒ रथ॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वस॒मये॑ते ॥२॥ १. अवियुक्ताः । सप्तगणरूपेण सङ्घीभूता इत्यर्थः Sy. अभीरवः Sk. २. तृतीयसवने ऋजीषस्याभिषवात् तत्र च मरुतः स्तूयन्ते इति तेषामृजीषित्वम् । यद्वा ऋजीषिणः प्रार्जयितारो रसानाम् Sy. ३. ० मताः M. ० मनाः P. उपधाया Acharya Shri Kailassagarsuri Gyanmandir १० उपह्वरेषु। यदा। अचिध्वं सञ्चितमकुरुत । मेघम् । पक्षिण इव । मरुतः। केन । चित् । पथा शीघ्रं गच्छन्तस्तदानीम् । उपक्षरन्ति । मेघाः । युष्माकम् । रथेषु स्थितास्तथा सति । उदकम् । १७ १३ १६ २० सिञ्चत | मधुसदृशवर्णम् । परिचरते । अतिशयेन यष्टुभिः सेविता: Sy. प्रियतमा अवितृततमा वा Sk. ४. अतिशयेन मेघादेर्नेतारः Sy. नृशब्देन तदाकारस्तद्विषयं वा प्राशस्त्यं लक्ष्यते । अतिशयेन मनुष्याकाराः प्रशस्ता वेत्यर्थः Sk. ५. रूपाभिव्यञ्जकै : Sy. रत्नप्रायैः Sk. ६. वक्ता M. raft व्यक्ता दृश्यन्ते Sy. व्यज्यते Sk. ७. ये केचन सूर्यरश्मयो यथा नभसि दीप्यन्ते तद्वत् Sy. उस्राश्चन्द्ररश्मयः Sk. ८. स्वशरीरस्याच्छादकैः Sy. स्तृभिरित्यपि नक्षत्रनाम । यथा केचिदुत्राश्चन्द्ररश्मयो नक्षत्रैः सम्बद्धाः सौम्यरूपा व्यज्यन्ते तद्वदित्यर्थः Sk. ६. उपह्वर्तव्येषु | गन्तव्येष्वस्माकं सन्निकृष्टेषु नभसः प्रदेशेषु Sy. गह्वरेषु पर्वतप्रदेशेष्वन्तरिक्षप्रदेशेषु वा व्यवस्थितम् Sk. १०. यथा विध्वं M. वर्षणसामर्थ्येनोपचितं कुरुथ Sy. अथवा यदचिध्वमित्येतदेव चनतेर्गतिकर्मण इत्वम् । [ १.६.१३.२. For Private and Personal Use Only चितिरेव वा सामर्थ्याद् गत्यर्थो द्रष्टव्यः । यदा गच्छथ ययि मेघसमूहं प्रति Sk. ११. ०तमरुत P. १२. केनचिदाकाशमार्गेण Sy. येनान्यः कश्चि दपि गन्तुं न शक्नोति तेन केनापीत्यर्थः Sk. १३. ०न्तं त० M. ययि गन्तारम् । नष्टार मित्यर्थः Sk. १४. जलं मुञ्चन्ति Sy. १५. अथवा ( येन ) चर्ममयेन रज्ज्वा बद्धेन कूपादुदकमुत्तार्थते स कोश इत्युच्यते । इह तु तत्सदृशत्वान्मेघाः कोशा अभिप्रेताः । उदकपूर्णा मेघा इत्यर्थः Sk. १६. रथे M. उप वो रथेषु । उपशब्दः सामीप्ये । समीपे वो युष्माकं स्वभूतानाम् । यत्र प्रदेशे युष्मदीया रथा व्यवतिष्ठन्ते तत्र रथचक्रधाराभिश्छ्वियमाना मेघाः प्रक्षरन्तीत्यर्थः Sk. १७ तथात्पु० P सभ्यु० M. वृष्टयुदकम् Sy. वृष्टिलक्षणम् Sk. १८. अस्मदभिलषितां वृष्टि कुरुतेत्यर्थः Sy. पातयतेत्यर्थः Sk. १९. ०तेः M. युष्मान् हविर्भिः Sy. स्तोतुरर्थाय Sk. २०. V. M. ignores उपह्वरेषु । It is explained as उपह्वर्तव्येषु गन्तव्ये - वस्माकं सन्निकृष्टेषु नभसः प्रदेशेषु by Sy. गह्वरेषु पर्वतप्रदेशेषु अन्तरिक्षप्रदेशेषु वा Sk.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy