________________
Shri Mahavir Jain Aradhana Kendra
१.६.८.१. ]
अन्तर्हितम्। नमनं कर्तुम् । अमन
तच्चैतदिन्द्रकृत इत्यैन्द्रत्वम् ।
8
www.kobatirth.org
४१५
[ 1.84.16.
४
अमन्वत गूढं तत्र वसति । त्वष्टा त्विषेर्दीप्तिकर्मण इति ।
४. ०न्ति P. D. ५. पञ्चमीनिर्देशादपेत्येति
को अ॒द्य यु॑ङ्क्ते धुरि गा ऋ॒तस्य॒ शिमी॑वतो भा॒मिनो॑ दु॒र्हणा॒यून् । आ॒सन्नि॑षून्ह॒त्स्वसो॑ मयो॒भू॒न्य ए॑षां भृत्यामृ॒णव॒त्स जी॒वात् ॥ १६॥
C
है
१०
११
१२
१३
१४
को अद्य । कः । इदानीम् । युङ्क्ते । इन्द्रस्य । रथधुरि । अश्वान् । कर्मवतः ।
१. अन्तहितं P. रात्रावन्तर्हितं. . . यन्नाम तेजस्तदादित्यस्य रश्मयः Sy. तत्सम्बन्धिहरिरथवज्रमरुदादिस्तुतिद्वारेणेत्यर्थः Sk. २. नाम स्थानम् । यावती काचित् स्तुतिः सर्वत्रवेन्द्रे व्यवस्थितेत्येवमृषयो मन्यन्त इत्यर्थः Sk. ३. अनेन प्रकारेण... अजानन् । उदकमये
स्वच्छे चन्द्रबिम्बे सूर्यकिरणाः प्रतिफलन्ति । तत्र प्रतिफलिताः किरणा: सूर्ये यादृशीं संज्ञां लभन्ते तादृशीं चन्द्रेऽपि वर्तमाना लभन्ते इत्यर्थः । एतदुक्तं भवति । यद्रात्रान्तर्हितं सौरं तेजस्तच्चन्द्रमण्डलं प्रविश्याहनीव नैशं तमो निवार्य सर्व प्रकाशयति । ईदृभूततेजसा युक्तः सूर्यश्च इन्द्र एव द्वादशस्वादित्येष्विन्द्रस्यापि परिगणितत्वात् । अतोsहोरात्रयोः प्रकाशक इन्द्र एवेतीन्द्रस्तुतेः प्रतीयमानत्वादिन्द्रो देवतेत्येतदुपपनं भवति Sy. अवबुध्यन्ते । के ? सामर्थ्यादृषयः Sk.
Acharya Shri Kailassagarsuri Gyanmandir
अम्मयत्वाच्चन्द्रमण्डलस्य ततः प्रतिहतः सन् परावृत्य ज्योत्स्नारूपेण पृथिव्यां दीप्यते । स उच्यत इत्येवमेकवाक्यता । अत्र चन्द्रमसो गृहे चन्द्रमण्डले गोः सुषुम्णाख्यस्य सूर्य रश्मेरमन्वत ज्ञातवन्त इत्यर्थः । के ? सामर्थ्याद्रश्मयः । नमनं नाम व्यवस्थानम् । त्वष्टुरादित्यादपेत्यापीच्यमन्तर्हितं परित्यज्यादित्यर - रिमकारचन्द्ररश्मिरूपेणावस्थितस्येत्यर्थः । एतदयोग्यम् । न तावदत्रशब्देन चन्द्रमसो गृहं प्रतिनिर्देष्टुं शक्यम्, इत्थाशब्देन तस्य प्रतिनिर्देशादित्थाशब्दस्य चात्रशब्दपर्यायत्वात् । अत्रामुत्रेत्येतयोश्च सन्निकृष्ट विप्रकृष्टप्रतिनिर्देशार्थयोरेकत्रार्थे विरुद्धत्वात् । नापि गोशब्देन सुषुम्णो वक्तुं शक्यम्। अनैन्द्रत्वप्रसङ्गात् । गोशब्देन हि सुषुम्णः प्रतिनिर्देशे सुषुम्णदेवतोयं मन्त्रः स्यात् । गुणप्रधानभावविपर्ययाद्वा चन्द्रदेवतः । न कथञ्चिदप्यैन्द्रः । ऐन्द्राणि चैतानि सूक्तानि । तत्र प्रकरणं बाध्येत । तस्मात्पूर्व एवार्थः Sk. ६. ० च्चे० P. ७. ०न्द्रत्व M. ८.ऽद्य M. ६. पुण्यवान् Sk. १०. अस्मिन् कर्मणिSy. ११. ०क्त P. M.
न कोsपीत्यर्थः Sy. कस्य पुण्यवतो हरीन् रथे नियुज्येन्द्रो यज्ञमागच्छति । उपालम्भो वा Sk. १२. अश्ववहनप्रदेशे Sy.
धुरम् Sk.
१३. गतिमतः Sy. १४. वीर्यकर्मोपेतान् Sy.
वाक्यशेषः ।
देवमात्रोपलक्षणार्थं चात्र त्वष्टृग्रहणं द्रष्टव्यम् । सर्वेभ्यो देवेभ्योऽपेत्येत्यर्थः ।
यास्कस्तु मन्यते । अत्राहेत्यत्रशब्देन ऋगन्त्यं चन्द्रमसो गृहं प्रतिनिदिश्यते । चन्द्रमसश्च गृहं चन्द्रमण्डलम् । गौरित्यपि सुषुम्णो नाम । सूर्यरश्मिश्चन्द्रमसं गतः,
For Private and Personal Use Only