________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.३.१३.३. ]
१८७
[ I.37.8.
नि वो॒ यामा॑य॒ मानु॑षो द॒ध उ॒ग्राय॑ म॒न्यवे॑ । जिही॒त॒ पर्व॑तो गरिः ॥७॥
निवो यामाय । निदधे । स्थूणादिकम्। युष्माकम् । गमनाय । उद्गर्णाय । अभिमन्त्रे स्थिरं स्थूणादिकं दृढं निहन्ति । मानुषः । पर्ववान् । गिरिश्च । कम्पते 1
येषा॒मज्ये॑षु पृथि॒वी जु॑जुवँइ॑व वि॒श्पति॑ः । भि॒या यामे॑षु॒ रेज॑ते ॥८॥
1
येषामज्मेषु । येषाम् । उत्क्षेपकेषु । गमनेषु । पृथिव्योषधिवनस्पतियुक्ता । जीर्णः । राजेव परबलागमने । कम्पते। भिया पूर्वत्र सम्बन्धः ।
१. नि वायो मायां M.
२. नियमेन स्वयज्ञे धारयति Sk. ३. Omitted by P. and D. ४. द्वितीयार्थे चतुर्थी...यामं रथं मानुषो मनुष्यो निदधे । ... अथवा यामशब्दो यागवचनः । स्वार्थ एव च तादर्थ्य चतुर्थी । युष्माकं यागाय । यूयं यज्ञे यास्यथेत्येवं तु मनुष्यो नियमेन धारयति । किम् ? सामर्थ्यात् सोमलक्षfa हवींषि Sk. ५. उद्गुणाय M. तीव्राय Sy. ६. अदिमन्त्रे P. मन्यवे चालनार्थमभिमन्यमानाय Sy. मन्युर्मन्यतेर्वीप्तिकर्मणः । वीप्तिरिहाभिप्रेता । उग्रायै दीप्त्यै । प्रकृष्टायैश्वर्यायेत्यर्थः Sk. ७. स्थितं P. ८. ०षा P. ६. पर्वतः P. D.
Acharya Shri Kailassagarsuri Gyanmandir
बह्ववयवयुक्तः । महानपि सन्नित्यर्थः Sk. १०. मेघो महीधरो वा । अथवा पर्वतो गिरिरिति समुच्चीयमानार्थी । एतेन परस्परविशेषणविशेष्यभूतौ । गिरिश्च पर्वतश्च । मेघश्च महीधरश्चेत्यर्थः । अथर्ववमन्यथास्या ऋचोऽर्थयोजना । व इति द्वितीयाबहुवचनम् । यन्त्यस्मिन् देवा इति यामो यज्ञः । युष्मान् यज्ञाय मनुष्यो नियमेन धारयति । किञ्चोप्राय मन्यवे जिहीत | मन्युरिति क्रोधनाम । पञ्चम्यर्थे च चतुर्थी । उग्रात् क्रोधाद् गच्छति । उग्रेभ्यः क्रुद्धेभ्यो
युष्मद् बिभ्यन्नश्यतीत्यर्थः । कः ? पर्वतो गिरिरपि । महान् गिरिः । किमुतान्य इत्यर्थः Sk. ११. गच्छेत् Sy. अन्यत्र गच्छति । युष्मद्भयान्नश्यतीत्यर्थः Sk. १२. ० मज्मेषं P. ० मज्येषु D. • मब्जेषु M. १३. युष्माकम् Sk. १४. गमनेषु Sk. १५. यामेष्वित्येतत्तु अज्मेष्वित्येतेन सम्बन्ध
यितव्यः । तृतीयार्थे चात्र सप्तमी । यामै रथैरज्मेष्विति । येषु युष्मासु रथैर्गच्छत्सु कमप्येते हन्तुं गच्छन्तीत्यजानती पृथिव्यपि भयेन कम्पते । किमुतान्य इत्यर्थः । अथवा येषामित्येतद् भियेत्येतेन सम्बन्धयितव्यः । तत्सम्बन्धे च... पञ्चम्यर्थे षष्ठी । अज्मेष्वित्यप्यज्मशब्दो गृहनाम । अज्मेष्विति यामेष्विति च समुच्चीयमानार्थे एते । सप्तमीनिर्देशाच्च योग्य क्रियाध्याहारः । येभ्यो युष्मदज्मेषु यामेषु गृहेषु च रथेषु व्यवस्थितेभ्यो भिया भयेन पृथिवी रेजते इति । येभ्यः स्वस्थेभ्यश्चासीनेभ्यो युद्धाभिमुखेभ्यश्च भयेन पृथिवी कम्पत इत्यर्थः । तेषाम् । ये मानुष इत्येवं तच्छदश्रुतेः पूर्वयचैकवाक्यता परया वा Sk. ०युक्तं P. १७. जीणः M.
१६.
१८. पुत्रपौत्रादीनां
पति
न
मनुष्याणां विश्पतिः । कुलज्येष्ठोऽत्राभिप्रेतो राजा । यथा जीर्णोऽत्यन्तं वृद्धो भिया भयेन रेजते कम्पते Sk.
For Private and Personal Use Only