SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.२.१६.१. ] १०६ [I.25.16. बिअ॑द्द्रपि॑ हि॑र॒ण्यय॒ वरु॑णो वस्त नि॒र्णिज॑म् । परि॒ स्पशो॒ नि वे॑दिरे ॥ १३॥ बिभ्रद्द्रापिम् । बिभ्रत् । कवचम्। हिरण्मयम्। वरुणः । आच्छादयति। रूपं दीप्तम्। परितश्चैनम्। निषीदन्ति। ज्ञापका रश्मयः । Acharya Shri Kailassagarsuri Gyanmandir न यं दिप्स॑न्ति दि॒प्सवो॒ न द्रुह्वा॑णो॒ जना॑नाम् । न दे॒वम॒भिमा॑तयः ॥१४॥ न यं दिप्सन्ति । यं वरुणम् । हिंसार्थिनः । न । हिंसितुमिच्छन्ति । जनानामन्येषाम् । द्रोग्धारश्च यस्मै। न द्रुह्यन्ति । न यं चाभिमन्यन्ते । अभिमातयश्चोत्तरत्र सम्बन्धः । उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या । अ॒स्माक॑मु॒द्रे॒ष्वा ॥ १५ ॥ उत यः । अपिच । यः । । मनुष्यैषु । अन्नम् । असाधारणम् । चक्रे सः । अस्माकमपि। उदरेषु । आकरोतु। प्रथम आकारः सप्तम्यर्थं स्फुटीकरोति । ११४ परा॑ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू॑ती॒रनु॑ । इ॒च्छन्ती॑रु॒रु॒चक्ष॑सम् ॥१६॥ 8 १७ परा मे। परागच्छन्ति। मे। बुद्धयो वरुणं राजानं प्रति । यथा । गावो । गोमार्गान् प्रति २० ३१ गच्छन्ति । इच्छन्त्यः । बहूनां • द्रष्टारं द्रष्टुम् । १. विद्रापि M. बिभ्रद्रापीं D. बभूवद्रावि P. २. पुष्टं स्वशरीरम् Sy. ३. परत० P. ४. सर्वतो निषण्णाः Sy. कृताकृतप्रत्यवेक्षणार्थं प्राणिनः परितो निषीदन्ति । अथवा निर्णिग् घटादिद्रव्यरूपमनात्मरूपम् । उदयोत्तरकालमाबद्ध हिरण्मयकवचो वरुणो रश्मिभिराच्छादयति घटादिद्रव्यरूपम् । रश्मिभिस्तमोऽपनीय यावत्कचिद्रूपं तत्सर्वं प्रकाशयतीत्यर्थः । तत्सहचरिताश्च देवानां स्पशः प्राणिकर्मज्ञानार्थं सर्वतो निषीदन्तीति पुराणेषु प्रसिद्धम् Sk. ५. हिरण्यस्पर्शिनो रश्मयः Sy. ६. M. reads द्रौग्धा रश्मयः स्मैनद् for द्रोग्धारश्च यस्मै न । ७. पाप्मानः Sy. तद्धिसकाश्चोरादयस्तेऽपि तं न हिंसन्ति । असुरैश्चोरादिभिर्वा प्रयुज्यमाना हिंसाश्च न हिंसन्ति । देवं वरुणं नून् वा Sk. ८. V. Mādhava ignores देवम् ६. मानुषेषु च देवेषु च Sk. १०. सम्पूर्ण चक्रे नतु न्यूनं कृतवान् Sy. आभीक्ष्ण्येन Sk. ११. सकलमस्माकं च तिर्यक्सदृशानां नृणामुदरेषु च । आङस्त्रितयाद् आदयन्त्यौ चार्थे Sk. १२. आ चक्रे सर्वतः कृतवान् Sy. १३. सम्यगर्थं M. १४. V. Mādhava ignores आ १५. P. D. and M. read परागच्छन्निमे १६. बुधयो M. प्रज्ञाः कर्माणि वा । धीरेव धीतिः ।... मबुद्धयो मत्स्तुतिकर्माणीति वा Sk. १७. विरणं P. १८. यस्मिन्भूप्रदेशे गावश्चरन्ति स गव्यूतिः । गाव इव स्वचरणभुवः प्रति Sk. १६. गोमार्गमनु P. मेमार्गान् M. गोष्ठान्य लक्ष्य गच्छन्ति तद्वत् Sy. २०. च्छन्त्यः P. २१. बहुभिर्द्रष्टव्यम् Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy