SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.२.१०.४. ] ६३ [I.23.14. ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो॑ जा॒ता अ॑वन्तु नः । म॒रुतो॑ मृळयन्तु नः ॥१२॥ हस्कारात्। अस्मादन्तरिक्षात्। जाताः । मरुतः। विद्योतनानन्तरं वृष्ट्यभावजनिता ४ द्धस्कारात्। अस्मान्। रक्षन्तु मरुतः । सुखयन्तु । अस्मानिति । आ पूंषञ्चत्रव॑र्हिष॒माव॑णे ध॒रुणं दि॒वः । श्रजा॑ न॒ष्टं यथा॑ प॒शुम् ॥ १३ ॥ आ पूषन्। आनय। पूषन् ! सोमं पणिभिरपहृतम् । आगतदीप्ते ! धारकम् । १० ११ १२ १३ द्युलोकस्य। यथा। नष्टम्। पशुम्। त्वमानयसि। पू॒षा राजा॑न॒माव॑णि॒रप॑गूऴहं गुहा॑ हि॒तम् । अवि॑न्दचि॒त्रम॑हि॑ष॒म् ॥१४॥ पूषा राजानम् । पूषा । सोमम् । आघृणिः । असुरैरपगूळहम् । गुहायाम् । निहितम् । २० २१ अविन्दत् । यस्मै चिरं बर्हिः स्तीर्यते । १. हस्तात् P. दीप्तिकरात् । ' हसे हसने ' । अत्र तु प्रकाशमात्रे वर्तते Sy. यदा दुर्भिक्षार्तस्य पुंस आर्तिप्रतिपत्त्यर्थं हश्शब्दोच्चारणम् । स हस्कारः Sk. २. ० नन्तर P. D. विद्युत: - विशेषेण Acharya Shri Kailassagarsuri Gyanmandir दीप्यमानादतोऽन्तरिक्षात् परिजाताः सर्वत उत्पन्ना मरुतः Sy. तदा विद्युतः परि विद्युतो जाताः । जन्मात्र व्यवस्थाने । विद्युतमधिष्ठाय वृष्टि - प्रदानेन दुर्भिक्षान् दूरीकृत्यास्मानवन्तु । यथा च वयं हस्कारं त्यक्त्वा प्रमोदलक्षणहन्तशब्दमुच्चारयामस्तथा कुर्वन्तु Sk. ३. ०द्धस्तारात् P. ४. नक्षन्तु M. ५. आज आज । आङो द्वित्वात्तत्सम्बद्धक्रियाया अपि द्वित्वम् । .... . अजिरत्रान्तर्णीतण्यर्थः Sk. ६. ०रुप० M. ७. आहतदीप्ते M. ०दीप्ते : D. I क्षरिता घृणिः । दध्ना पूर्णो वृतिः । सा कक्षे रथे वा यस्य स आघृणिः । ... तस्य सम्बोधनम् । दीप्तिर्वा घृणिः, साऽऽगता यस्य स वा उपजातदीप्तिः Sk. ८. यागस्य धारकम् Sy. ६. लोकाद् आहर इति शेष: Sy. दिवः । मञ्चाः क्रोशन्तीव तत्स्थान् एवाह । द्युनिवासिनां देवानां धारयितारम् । . धरुणमुदकं वा । चित्रबर्हिषं च सोममुदकञ्च धुलोकात् पुनः पुनः अस्मदर्थमागमय Sk. १०. Omitted by M. ११. अजं गां वा त्वमेवागमयसि पशूनां रक्षितु त्वात् । लौकिकः पशुपालो वा तद्वत् Sk. १२. यथा लोके नष्टं पशुं महारण्यादावन्वी क्ष्य कश्चिदाहरति तद्वत् Sy. १३. V. M. ignores चित्रबर्हिषम् and अज । १४. अत्रेतिहासः - असुराः सोमं राजानं दीय मानमग्नेर्हस्तादपहृत्य गुहायां न्यदधुः । तं पर्येषमाणा अन्ये देवा नाविन्दन् । पूषा त्वविन्दत् । स तं गृहीत्वा दिवमानयत् । इत्यस्यामुच्यते Sk. १५. सो M. १६. णि: M. १७. अत्यन्तगूढम् Sy. आच्छादितं गुहायां निहितमसुरैः Sk. १८. गुहासदृशे दुर्गमे द्युलोके स्थितम् Sy. १६. अविन्दत्यस्मै M. चित्रबo S. २०. रमित्रं M. २१. बहि M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy