SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.२.७.६. ] [I.22.21. विष्णुः कर्माणि पश्यत॒ यतो॑ व्र॒तानि॑ पस्य॒शे । इन्द्र॑स्य॒ यु॒ज्य॒ सखा॑ ॥ १६ ॥ ३ ४ विष्णोः कर्माणि । विष्णोः । कर्माणि । पश्यत । यैर्मनुष्याणाम् । कर्माणि । बध्नाति । इन्द्रस्य । नियोज्यः । सखा । तद्वष्णो॑ः पर॒मं प॒दं सदा॑ पश्यन्ति सू॒रय॑ः । दि॒वी॑व॒ चक्षुरात॑तम् ॥२०॥ तद्विष्णोः। तत्। विष्णोः। उत्तमम् । स्थानम् । सदा । पश्यन्ति । प्राज्ञाः । अन्तरिक्षे । विततमिव । तेजः । यद्वाऽन्तरिक्षे विततं यथा चक्षुः पश्यन्ति तद्वत् । १२ १३ १. विष्णोः कर्माणि omitted by D. and M. ८९ I तद्विप्रा॑सो विष॒न्यवो॑ जागृ॒वस॒ः समि॑न्धते । विष्णो॒र्यत्प॑र॒मं प॒दम् ।।२१।। तद्विप्रासः । तत् । उत्तमम् । पदम्। मेधाविनः । विविधं स्तुवन्तः । स्वप्नवर्जिताः १५ १६ १७ १८ कर्मभिः । सन्दीपयन्ति यज्ञाख्यम् । २. Omitted by P. ३. यूयमृत्विज ऋषयो वा Skr. ४. यैः कर्मभिर्वतान्यग्निहोत्रादीनि पस्पशे सर्वो यजमानः Sy. यत इति आद्यादित्वात् तस् भिसि । यैव्रतानि प्रवर्त्यन्ते तानीति हविर्लक्षणान्यन्नानि । कर्माणि वा यागाख्यानि । तानि चात्मनि प्रतिबद्धवान् । आत्मदेवत्यानि कृतवान् । अथवा बलिप्रभृतीनां दानवानां व्रतानि प्रतिबद्धवानित्यर्थः Skr. ५. बन्धाति P. स्पृष्टवान् विष्णोरनुग्रहादनुतिष्ठतीत्यर्थः । स्पश बाधनस्पर्शनयोः Sy. ६. अनुकूल: Sy. योग्यः Skr. ७. तद् विष्णोः omitted by M. ८. तच्छास्त्रप्रसिद्धं. स्वर्गस्थानम् Sy. ६. शास्त्रदृष्ट्या सर्वदा पश्यन्ति Sy. ध्यायन्ति Skr. १०. ऋत्विगादयः Sy. विद्वांसः स्तोतारो वा Sk. ११. आकाशे Acharya Shri Kailassagarsuri Gyanmandir यथाऽऽततं सर्वतः प्रसतं चक्षुर्निरोधाभावेन विशदं पश्यति तद्वत् Sy. आदित्यमण्डलं यथाऽऽततं तद्वत् । विष्णुरेव वाऽऽदित्यः । विस्तृते दिवि यथादित्यमण्डलाख्यं विष्णोः परमं पदं पश्यन्तीत्यर्थः । अथवा चक्षुष इन्द्रियत्वाद् एवं योज्यम् । विष्णोरुत्कृष्टं पदं सदा पश्यन्ति सूरयः । यथा च दिव्येवं विष्णावपि सर्वमनुष्याणां चक्षुराततम् । दिविष्ठः सूर्य एको जलेऽनन्तस्तद्ववेकः सन्नपि प्रपञ्चेणानेक इव Skr. १२. चश्यन्ति D. १३. Omitted by P. and M. १४. विशेषेण स्तोतारः • स्तुत्यर्थस्य पनेः .. Sy. विविधस्तुतिकामाः । ... विस्तुतिमन्त इति वा Skr. १५. प्रमादराहित्येन जागरूकाः....... जागृ निद्राक्षये Sy. अप्रमाद्यन्तः स्तुतिभिः Skr. १६. सम्यक् दीपयन्ति Sy. १७. The passage beginning with fafa etc. and ending with यज्ञाख्यं is omitted by P. १८. Ms. D. puts the figure ॥२२॥ here to indicate the end of the twenty-second hymn. No such number is given in P. and M. V. M. ignores fauit: and For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy