________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.22.18. ]
[ १.२.७.३.
इ॒दं विष्णुर्व च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । सर्मूळहमस्य पा॑सु॒रे ॥१७॥
इवं विष्णुः। इदं त्रैलोक्यम्। विष्णुः । विचक्रमे विक्रममाणश्च । त्रेधा । निहितवान् ।
8
पदम् । तत्र यास्क :--- - " पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः । समारोहणे विष्णुपदे गयशिरसी
9
C
त्यौर्णवाभः " । इति। सङ्गतम्। अस्य। पांसुले पदे त्रैलोक्यम् ।
मनुष्याणां । कर्माणि । धारयन् ।
८८
श्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑गो॒पा अदा॑भ्यः । अतो॒ धर्मा॑णि॒ धा॒रय॑न् ॥१८॥
श्रीणि पदा। त्रीणि। पदानि । विचक्रमे । विष्णुः । गोपायिता । अहिंस्यः। पृथिवीमारभ्य
१. विष्णुम् M.
अथ यद्विषितो भवति तद्विष्णुर्भवति । विष्णुविशतेर्वा । व्यश्नोतेर्वा.... यदिदं किं च तद्विक्रमते विष्णुः । त्रिधा निधत्ते पदम् । [ त्रेधाभावाय । ] पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः । समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः । समूळ हमस्य [पांसुरे] प्यायनेऽन्तरिक्षे पदं न दृश्यते । अपिवोपमार्थे स्यात्। समूळहमस्य पाँसुल इव पदं न दृश्यत इति । पाँसवः पादैः सूयन्ते इति वा । पन्नाः शेरत इति वा । पंसनीया भवन्तीति वा । N. 12. 19. २. त्र्यै ० P.
३. विष्णुस्तु भगवानस्मद्भर्ता वासुदेवः । स वामनः छद्मना महाबलिं बबन्ध Skr. ४. त्रेधा त्रिभिः प्रकारैः Sy. ५. तत्काले प्रपञ्चं विक्रान्तस्त्रिस्थानभेदेन निहितवान् पदमात्मीयं पदं त्रिषु स्थानेषु कृतवान् । भुवि खे दिवि चेत्येके । समारोह विष्णुपदे गयशिरसीत्यन्ये । निर्गुणस्य परब्रह्मणो गुणवर्णने विभ्रमन्ति लोकाः । न तच्चित्रम् । तच्च त्रिविधम् । Skr. ६. ० पूरिणिः P.
७. N. 12.19. ८. सम्यगन्तर्भूतम् Sy. ६. सम्यग् गूढं सम्यक् प्रतिष्ठापितमस्य
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पदं पासुमतीव । पाँसवो यस्मिन् सन्तीति मतुपि रप्रत्ययः । लुप्तोपमं च । यथा पांसुमति देशे सुप्रतिष्ठापितं तद्वत् । अस्य स्वीयं वा पांसुः । पृथिवी वा समारोहणं वा । तत्र यत्पदं विष्णोरस्मद्भर्तुस्तत्समूढम् । विष्णुरादित्यो वा । इदं सर्वमहरहविचक्रमे । त्रेधा उदयगिरौ नभोमध्ये चास्तगिरौ च त्रिविधं सम्यक् प्रतिष्ठापितमस्य पदं पांसुरूपदेशे । इति । चित्तु सम्पूर्वस्य मुहे रूपमिति । समूढं छन्नम् । न दृश्यते । विष्णुरेवादित्यरूपेण लोकान् प्रकाशयति । तस्य त्रैविध्यमन्यथा वा । अग्निवैद्युतादित्यात्मना भुवि खे दिवि । एकमेवेदं ज्योतिस्त्रेधा विभक्तमिति मूर्धन्वान् वक्ष्यति तत् । ...... तत्र यत् खे वैद्युतस्य पदं तच्छन्नं नित्यं न दृश्यते Skr. १०. सर्वस्य जगतो रक्षक: Sy.
गोपयिता कृत्स्नस्य जगतः Skt. ११. केनापि हिंसितुमशक्यः Sy. १२. अग्निहोत्रादीनि धारयन् पोषयन् Sy.
अतः पार्थिवाल्लोकात् कर्माणि । सर्वाणि धारयितव्यानीति वा । आत्मनि धारयन् । धर्मकर्मणी धारयितव्ये च । सर्वाश्रयो हि भगवानस्मद्भर्ता श्रीविष्णुः Skr.
For Private and Personal Use Only