SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1.15.10.] ६४ [ १.१.२६.४. " द्रविणोदा यस्त्वम् । द्रविणसादिन इति वा द्रविणसस्तस्मात् पिबत्विति वा । यज्ञेषु देवमीळते याचन्ति स्तुवन्ति वर्धयन्ति पूजयन्ति वेति । " द्रवि॑णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्व॒रे । दे॒वेषु ता व॑नामहे ॥८॥ द्रविणोदाः। द्रविणोदाः। ददातु । अस्मभ्यम् । वसूनि धनानि गवादीनि । यानि । विश्रुतानि । तानि वयम् । देवेषु स्थितानि द्रविणोदसम् । याचामहे । स तत आदाय नो ददातु । द्रवि॒र्णोदाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत । ने॒ष्ट्राह॒तुभि॑रिष्यत ॥६॥ द्रविणोदाः । द्रविणोदाः । सोमं पातुमिच्छति ततः । जुहोताध्वर्यवः ! । हविर्धानात् १० ११ प्रतिष्ठत च । नेष्टुः स्वभूताच्चमसात् । ऋतुभिः सह । यष्टुमिच्छत । Acharya Shri Kailassagarsuri Gyanmandir यत्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे । अध॑ स्मा नो द॒दिर्भ॑व ॥ १०॥ १३ 98 यत्त्वा तुरीयम्। यदा। त्वाम् । चतुर्थम् । अप्यृतुभिः सह । द्रविणोदः ! । यजामहे। ૧૭ १६ अथ त्वम्। अस्माकम्। भव । दाता । स्मेति स्फुटीकरणार्थः । १. Omitted by P. २. द्रविणस इति, द्रविणसानिन इति वा and fa of the Nirukta are missing in V. M's quotation See note no. 13, on p. 63. ३. Omitted by M. and S. ४. विरुपयुक्तत्वेन श्रूयन्ते Sy. लडर्थेऽयं लिट् कर्मणि च । श्रूयन्ते । उत्कृष्टत्वात् प्रभूतत्वाच्च सर्वलोकप्रकाशानि भवन्तीत्यर्थः Sk. ५. तानि हवीरूपाणि कृत्वा Sk. ६. तानि च सर्वाणि धनानि देवेषु निमित्त भूतेषु वनामहे संभजामः । धनैर्देवान्यष्टुं तानि स्वीकुर्म इत्यर्थः Sy. वनतिरत्र सामर्थ्याद् दानार्थः ... दद्म इत्यर्थः । अथवा वनिहि संभक्त्यर्थ एव... देवार्थं संभजामहे देवान् यष्टुं परिगृह्णीम इत्यर्थः Sk. ७. Omitted by P. and D. ८. ०दा D. ६. oर्यवौ M. १०. च नेष्टवः P. वचनेषु M. नेष्टृसंबन्धिपात्रात् Sy. नेष्टुः स्वभूतात् पात्रात् Sk. ११. ०तः S. होमस्थाने गच्छत । गत्वा च जुहोत होमं कुरुत । हुत्वा प्रतिष्ठत च । होमस्थानात्स्थानान्तरं प्रति प्रस्थानमपि कुरुत Sy. इष्यत । इषु गतौ । गच्छत मा विलम्बध्वमित्यर्थः Sk. १२. यत्वा D. M. यन्त्वा P. १३. यस्मात्कारणात् Sy. १४. क्रियाविशेषणं तुरीयमिति । पूर्वास्तिस्रोऽपि द्रविणोदसः । तुरीयया च द्रविणोदस्त्वां यजामहे Skr. १५. ऋच्युतुभिः P. अव्युभिः M. १६. द्रविणोदो : M. १७. अध S. अध छान्दसो धकारः... अधेत्ययं निपातस्तच्छब्दार्थः Sy. तस्मादर्थे अध इति Skr. १८. तु M. २०. ०करार्थः P. १६. स्म अवश्यम् Sy. ०कारार्थ : D. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy