________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तइओ ऊसासो यिष्यामि समुचितम्" । आकर्ण्य ज्ञायमान-सभ्यपुरुषस्य वल्गुभणिति ऋजुहृदयोऽलब्ध-वञ्चना-रहस्यो निजाशयेन पराशयं अङ्कयन् श्रेष्ठी आनन्दितो जातः, कथयितु च प्रवृत्त:- “सुकृतिन् ! सुष्ठ व्याकरणं भवतः । नाहं करिष्ये मुधाप्रलापम् । नूनं विक्रतव्यः मया काष्ठभारः । अन्यथा कथं अस्मादृशानां चलति गृहस्थाश्रमः ? नित्यं नव-खनितकूपस्य नीरं पिबामोवयम् । नो भवादृशानामिव कोश-परिवर्धनावसरोऽस्मादृशानाम् । भारिकायास्तावत् मूल्यं केवलं सार्धद्वयाणकमात्रम् । न इतोऽतिरिक्त न पुनः ऊनकं, यदि गृहीतव्यं तर्हि ...... ।
अलक्षितामरचन्दनदम्पर्यस्य ऋजुमतेः जिनदत्तस्य भारती निशम्य प्रतारण-कुशलः सहृष्ट-तुष्टः जातः । साधु साधु भो भद्र ! समुचितं मूल्यं त्वया मागितम्, मयापि एतावन्मात्रमेव अनुमितम् । महाकठिनायासस्य त्वादृशानां यथेष्टं मूल्याङ्कनं कर्त्तव्यं अस्मादृशैः, इतरथा स्वेदबिन्दु-सिक्तः कृतः परिश्रमः अवमन्यते । हन्दि ! कीदृशं अन्धकारम् ? यत् सततं परिश्राम्यन्तः, स्वशरीरसुखमपि अवगणयन्तः, शीततापादिक्ले शं सहमानाः, क्षुधिताः पिपासिताः अलब्धावासाः अनासादितविद्याभ्यासावसराः रुग्णाः तथा नग्नाः उपेक्ष्यन्ते, जुगुप्स्यन्ते च । ततः विपरीताः पर-परिश्रम-लाभ-लोलुभाः नाना-कुटिल-कला-कलापकोविदाः हृदय-विहीनाः मनुज-धर्म-वन्ध्याः धनकुबेराः विशालावासाः वस्त्रालङ्कार-विभूषिताः नाना-वाहन-परिकीर्णाः पिचण्डिलाः अलसाः
र्यस्य-अज्ञातहरिचन्दन रहस्यस्य इत्यर्थः ५ एतावन्मात्रम् ६ सततम् ७ रुग्णाः ८ उपेक्ष्यन्ते ।
For Private And Personal Use Only