________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
तइओ ऊसासो माणेन श्रेष्ठिना एकस्यां गिरिकन्दरायां दिव्य-नियम-प्रभावेण अमरचन्दनस्य सङ्घातः दृष्टः । निभालयित्वा यथेष्टं द्रव्यं प्रसन्नमनाः श्रेष्ठिकः जातः किन्तु विधि-दोषेण दक्षणापि एतेन न लक्षितं हरिचन्दनम् इति । धिग् ! धिग् ! विपरीते विधौ चेतनापि स्खलितकेतना सम्पद्यते । सन्दानितो दृढस्तस्य भारः तत्कालम् । मस्तके कृत्वा नगरदिशं प्रत्यावलितः । नगरपरिसरे आयतः तस्य धूर्तशिरोमणिः धनदत्तः उत्फुल्लवदन-कमलोऽपि कलुषितान्तःकरणः अकस्मात् सम्मुखमागतः। महमहिअं (प्रस्फुटद्गन्धं) काष्ठभारं अवगम्य अत्यन्तं वीक्षापन्नः सः । अव्वो ! अस्य अज्ञानकस्य शिरसि अमरचन्दनं कुतः आगतम् ? अथवा घुणाक्षरीयन्यायोऽत्र सङ्गतः । किं वा न लब्धो बालिश-ब्राह्मणेन चिन्तामणिः ? जातु प्रकृतिरपि कुतूहल-तत्पराभवति । गृण्हामि किल अस्य मूढतायाः अतुल्यं लाभम् । प्रत्यक्षमपि गन्धोद्गीर्णं येन न लक्ष्यते तेन मूढेन चन्दन-सद्भावोऽपि नूनं अलक्षितः भवेत् । इति विचिन्त्य उल्लसित-रोमकूपः धूर्ततया सप्रेम जिनदत्तं व्याहतु-प्रवृत्तः- "भ्रातः । किं विक्रतव्यं इन्धनमिदम् ? यदि अस्ति तहि यथोचित-मूल्य-मार्गणं कर्त्तव्यम् । सत्पुरुषाणां एषा एव प्रणाली यत् ते न मुखेन मिथ्या जल्पनं कुर्वन्ति । एकवारं कथितं न पुनः परावर्तन्ते । मुखाकृत्या त्वमपि “भद्रपुरुषः' इति लक्ष्यसे । तस्माद् यथेष्टं मूल्यं आविष्करणीयम् । अहमपि न तत् परावर्त
विस्मयं गतः ५ घुणाक्षरीयन्यायः ६ मूर्खब्राह्मणेन ७ गन्धोगिरणम् ८ उल्लसितरोमकूपः।
For Private And Personal Use Only