SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तइओ ऊसासो ७५ * इतः प्रतीक्षमाणा पतिदेवं भानुमती स्थिता उटज -द्वारे । कथं नागताः अधुनावधि आर्यपुत्राः ? किं नवीनं अरिष्टं उत्पन्नम् ? एवं चिर प्रतिपालयन्त्याः तस्याः नयनपथं अवतीर्णो रत्नपाल पिता । मोदमेदुरा जाता जाया । रणरणकं आपन्नया तया उद्दङ्कितम् - "कथं चिरायितं अद्य आर्यपुत्र : ? कथं उद्वातं दृश्यते युष्माकं अङ्गम् ? कुत्र विच्छदिता शिरसि नीयमाना इन्धनभारिका ।" एवं प्रेमवत्या समण्या अनेके प्रश्नाः प्रस्तुताः । तत्व- गम्भीर मुद्रया श्रेष्ठिना प्रकटीकृतम् - "प्रिये ! अस्ति प्रावृट्कालः । दुर्लभं शुष्कं काष्ठम् । तद् गवेषयता मया इयान् समयोऽतिवाहितः, परन्तु न लब्धं यथेष्टं वस्तु । व्रत भङ्ग भीरुणा मया न आनीतं सचित्तं काष्ठम् । ततः रिक्तहस्तः किल पुनः आगतोऽस्मि रत्नमातः ! निश्चलं रक्षितं व्रतं निश्चितं रक्षाकारकं भवति । " सम्यक् चिन्तनं आर्यपुत्राणाम् । न तुच्छ भङ, गुर- पौद्गलिकसुखानां कृते अतुच्छामराध्यात्मसुखानां हानि करोति सुज्ञमनुजः । श्वः परेद्यः वा यत् प्रापणीयं तत् प्राप्स्यामः का चिन्ता ?" निवेदितं प्रिय धर्मिण्या सधर्मिण्या निर्भयम् । एतत् खलु धर्म-प्राप्तेः प्रत्यक्षं निदर्शनम् । अहो ! एतादृश्यां आपदि अपि न एतयोः मनः चापल्यं प्राप्तम् । द्वितीयः दिवसोऽपि अलब्ध- लक्ष्यो निर्गतः । तृतीये दिवसे नीरन्ध्र-वन-विभागे बम्भ्रम्य ७ गवेषयता - 'गवेषेर्दण्दुल्ल - ढण्डोल - गमेस धत्ताः' ( हे० ४ १८६ ) ८ इयाद 'इदं किमश्चडेत्तिअ-डेत्तिल्ल - डेदहा : ' ( हे० २ - १५७ ) ६ सुज्ञमनुजः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy