________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ तृतीयः उच्छ्वासः
समस्त-जीवलोक-तप्ति-निवारकः नानाविध-तरु-लता-पुष्प-फलगुल्म-विचित्र-तृणौषध्युत्पादकः, निर्जलप्रदेशकजीवनाधारः हालिकैरनिमिषदृष्टया दिष्टया चिरं प्रतीक्षितः उद्भूतः प्रावृषिकः कालः । रोलम्ब-गवल-कलिकाऽपि नयनाभिरामा, उत्थापितधूल्युत्कराऽपि नीरजाः, कृतान्धकारापि उद्योतित-मानसा, चञ्चलप्रकाशापि लक्षिताऽऽयत्युज्ज्वल-प्रकाशा, कर्णजाहभेदं स्तनन्ती अपि अतीव कर्णप्रिया, प्राचीन-पवन-प्रेरिताऽपि सद्यस्का, उत्थिता अम्बरे कादम्बिनी। 'अद्य व इदानीमेव सर्वेषां सन्तुष्टि करोमि' इति वर्षितु प्रवृत्ता धारासारेण सा। जलजलायितं जातं सर्वतः सगगनं भूतलम् । न अस्मभ्यं संग्रहो रोचते इतीव मूसलधारं मन्ये पतितु लग्नाः प्रणालाः ।
४ लक्षित-भविष्यदुज्ज्वल-प्रकाशा ५ कादम्बिनी-मेघमाला।
For Private And Personal Use Only