SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिइआ ऊसासो सत्वरं पलायितः इति । तदा कृपणस्य मनः प्रमोद-मेदुरं जातम् । अहह ! शुभं मे अति शुभम् ! अनायासं मम मनोभावना फलवती अभूत् । दातव्य-द्रविण-वृद्धिभार-विक्षुब्धः अधमर्णो न कदापि प्रत्याव लिष्यते अत्र वराको जिनदत्तः। आकाश-कुसुमायिता इयं कल्पना यत् एष प्रत्यावलितः सन् सकुसीदक द्रव्यं उत्तमणेभ्य: पश्चात् करिष्यति, तथैव पुत्र पुन: नेष्यति स निजं गृहम् इति । ततः निस्सन्देहं भूतो मे गृहप्रदीप: रत्नपालो बालः । देवकृपया कथमपि अपूरणीया क्षतिः पूर्णा । दुर्भरं अखातं विधिना समतलं भूतम् । नूनं उत्पन्नो मे महाकष्टसञ्चितायाः विभूत्याः भविष्यन् स्वामी । एवं कल्पना-मधुरं भविष्यं चिन्तयन् निघुणोऽपि मन्मनः करोति अनेकयत्नान् डिम्भार्थम् । अहन्यहनि वर्धमानः अङ्कात् अङ्क संहियमाण: शावोऽतीव प्रियः प्रतिभासते। आनीतानि अनेकानि कोडनकानि पोतमन:-परितुष्टि कारकाणि । आकर्षण-कारकैः वस्त्र: विभूषितः, लघुसौवणिकवलयाभ्यां हस्तयोः समलंकृतः, मौक्तिकमालया कण्ठे मण्डितः, महा या॑भ्यां ताडङ्काभ्यां कर्णयोः प्रसाधितः एषः । मा 'ण' नयनदोषो भवतु इति कज्जल-बिन्दुभिः ललाटे बाहुयुगले च श्यामलितः । कि बहुना, न नाममात्राऽपि त्रुटि: विद्यते अस्य परिपालने । इति श्रीचन्दनमुनिविरचितायां पुत्र-जन्म-देशत्यागवसन्तपुरागमनादिभावसंयुक्तायां रत्नपाल कथायां द्वितीयः उच्छ्वासः समाप्तः १ निशिथिन्याम-रात्री २ पलायितः ३ मम ४ अभूत् ५ आकाश-कुसुमायिता ६ सकुसीदकम् ७ अहन्यहनि ८ विभूषितः ६ श्यामलितः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy