________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिइओ ऊसासो वयं अपराहकाले अग्रतः स्वमेव, संप्रति कृपया मनः उदारं कृत्वा न उत्थापनीया वयम्" निवेदितं सद्भावनया श्रेष्ठिना ।
"अलं मनुजत्वोपदेशेन । भ्रमन्ति अनेके पश्यतोहराः मधुरं जल्पन्तो वेश-परिवर्तनेन लोकं प्रमुष्णन्तः । तस्मात् पश्यन्तु अपरं स्थानम् । न अत्र क्षणमपि स्थातव्यं युष्मामिः" सगह स्फुटं प्रतिषिद्ध तया।
एवं गृहस्वामिन्या अपमानितौ एतौ झटिति पोट्टकं गृहीत्वा अग्रतः सृतौ ! हन्त । कः प्रतिपृच्छति दारिद्र य-मुद्रित-भागधेयानां सुखं दुःखम् । आपदि निजाः अपि परकीया:; तदानीं अपरिचितानां तु का कथा ? नूनं ईदृश एष संसारः । अत्र अभ्रच्छाया इव सर्वापि चञ्चला लीला । गाढस्नेहेऽपि इह अप्रीतेः उद्गमः । दिव्योद्योतेऽपि अस्मिन् अन्तहिता तमिस्ररेखा। मधुरालापेऽपि अत्र कटूक्तिप्रसंगः । धिग् धिग् ! तथापि कथं संसारिणां ज्ञानलोचनानि मुद्रितानि । पराभवन्ति प्रतिपदं सद्यस्काः तादृक्षाः अनुभवास्तथापि न कथं परिस्फुरति अन्तरङ्ग वैराग्यम् । अरे ! गाढं आवरणं अज्ञानस्य । प्रत्यक्षमपि न कथं गह्यते मोहधृष्ट्या मत्या।
भानुमतींसम्मुखी कुर्वता श्रेष्ठिना कथितम्-"भायें ! अननुकूलानि अहानि आस्माकानि सम्प्रति । तस्मात् एतादृशाः पूर्व अननुभूताः प्रसङ्गा आपतन्ति । तथापि न विमनोदुर्मनोभ्यां भवितव्यं आवाभ्याम् । अत्र 'हु' परीक्षा आवयोः चिरपालितस्य धर्मस्य । अतः ऊर्ध्व आवां न कस्यापि शरणं व्रजिष्यावः। यत्र कुत्रापि स्वाधीनं
५ सद्यस्काः ६ गृह्यते ७ दिनानि ८ आश्रयम् । प्रजिष्यामः ।
For Private And Personal Use Only