SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बिइओ ऊसासो ५६ मार्गयन्तः मार्गकाः आगत्य गमनविक्ष ेपं कुर्युः' इति पुनरपि अग्रत: चलितः श्रेष्ठी । दयितं अनुव्रजन्ती भार्या चलनानभ्यस्तचलना स्खलति उच्चावचे पथि । कदापि तीक्ष्ण-पाषाण खण्डेन आस्फालिता अग्रगामिनं पतिं सखेदं शब्दयति । चलितां रुधिरधारां तद्योग्योपायेन संवृणोति ससाहसं श्रेष्ठी । मध्यदिनकरस्य तापेन संतप्तौ एकस्य सन्निवेशस्य मध्ये गतौ एतौ । कस्यापि धवलमन्दिरस्य बहिस्तात् सच्छायां सुघटां वेदिकां विलोक्य माध्याह्निकी वेलां अतिवाहयितु मस्तकगतां पोट्टलिकां रक्षयित्वा एकतः स्थितौ । 'अग्रे कुत्र व्रजनीयं, किं करणीयं' इति विमर्शनपरौ संलपितु लग्नौ । तत्कालमेव वातायनेन एकया वामलोचनया निजमन्दिर - वेदिकायां aste अनुपलक्षिता अध्वनीना आलपन्तः स्थिताः इति निभालिताः । एक्कसरिअं (गिति ) सा तत्र समागता । नयनाभ्यां अस्नेहं दर्शयन्तीवज्रकर्कशया गिरा कथयितु प्रवृत्ता - ' कथं भोः स्थिताः अत्र अप्रत्यभिज्ञाताः अपि अस्मदीय- मन्दिर - वेदिकायाम् ? अनुपलक्षितेभ्यो न वयं स्थानं दातु समर्थाः । तस्माद् व्रजन्तु, शीघ्र ं व्रजन्तु भोः ! केषाञ्चिद् युष्माकं उपलक्षितानां गृहे । " " पथिका वयं मध्याह्नकाले विश्रमणार्थं स्थानं प्रेक्ष्य किञ्चित्कालं स्थिताः । भगिनि ! मनुजः मनुजस्य आश्रयं प्रार्थयति । वजिष्यामो ( हे ० ४ ८३ ) ८ मध्ये ( देशीयः शब्दः ) ६ वेदिकां 'चबूतरा' इतिभाषा १० वातायनेन ११ झगिति १२ तहि तत्र १३ अप्रत्यभिज्ञाताः १४ पथिकाः 'पथो णस्येकट' (हे०२-१५२ ) इतिपहिओ - पान्थः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy