________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिइओ ऊसासो
विचित्रामवस्थां प्राप्तो जिनदत्तः संप्रति किंकर्तव्यमिति परामृशति भार्यया सार्धम् । 'द्रविण-विनिमयेन रक्षितःपुत्रःपरगृहे' इति जनापवादभीरुकः कथं मुखं दर्शनीयमिति लज्जितः । अन्ते अविज्ञातव्यतिकरे नागरजने प्रच्छन्नतया गृह-नगर-देशपरित्यागः कर्त्तव्यः, इति उभय-सम्मतो निश्चयो जातः । उत्त्रस्तमनसा भानुमत्या सर्वगृहभाण्डं व्यवस्थितं कृतम् । आवश्यकवस्तूनामेका लघ्वी पोट्टलिका सज्जीकृता । अनेकदिनभक्षणार्ह 'सूखड़ी' आदिकं किमपि पाथेयं पुनः विनिर्मितम् । सर्वमिदं कार्य मा परैः लक्ष्यतामिति बद्धकपाटं तया अनुष्ठितम् । पुत्र-वियोगविधुरः अतीव प्रलम्बोऽपि वासरो गृहकार्यगुरुकतया कथंकथमपि पूर्णत्वं प्राप्तः। प्रकाश-प्रकर्षवन्ध्या सन्ध्या सम्मुखीना सम्पन्ना। पर्यन्तकालिम्ना लालिम्ना स्तोककालिक: अधररागो दर्शितः । प्रादुष्कृत-लब्धावसरसिद्धातं ध्वान्तं विस्तरितु लग्नम् । किं करणीयमस्माभिरिति बिन्दुकाकाराः ताराः अनन्ते मन्दमयूखैः आलोकितु प्रवृत्ताः। माता इव शान्तिप्रदा रात्रिरिति जाताः झटिति मुकुलितपक्ष्माणो डिम्भाः । अन्योन्यसन्दिग्धानि वियुक्तानि चक्रवाकाणां युग्मानि । साक्षात् लब्धलक्ष्या संभूता तस्कराणां मलिना भावना। सर्वेऽपि सद्गृहस्थाः स्वगृहस्थाः जाता जायाभिः अनुनीयमानमानसाः। एतादृश्यां तमिस्रायां अनुकूलोऽवसरः पलायनस्य' इति ज्ञात्वा जिनदत्तेन एका कृतज्ञा दक्षा पितामही-समाना
झम्पणिका :-निमीलितपक्ष्माण इत्यर्थः यथा-'झंपणीओ पम्हाइं (पाइयलच्छी ८४६) भांपण, इतिभाषा १२ सद्गृहस्थाः १३ स्व-गृहस्थाः ।
For Private And Personal Use Only