________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिइओ ऊसासो श्रेष्ठी नानाविधां क्रीडां करोति । यथा तथा जल्पन् तं रमयति । विस्मृताऽपरगृहकार्यः स्कन्धं आरोपयित्वा यत्र तत्र भ्रामयति तम् । धात्रीणां व्यवस्थाऽपि यथोचिता कृता । गिरिकन्दरलीनः चम्पकपादप इव मन्मनगृहे सुखं सुखेन परिवर्धते सः । हन्त ! विचित्राणि विधेविलसितानि ।
इतश्च परहस्तगतं पोतं कृत्वा गृहीतरसा इक्ष यष्टिरिव, निपतितपत्रपुष्पफला वृक्षावलीव, चेतनाशून्या तनूरिव भानुमती अभूत् । अब्बो ! प्रत्यूषेऽपि सर्वत: गाढान्धकारः प्रसृतः । व्याधिवजितेऽपि तस्याः शरीरे कापि असहनीया अतुलवेदना उत्पतिता । ग्रथिलचित्ता इव चिन्तयति सा-“किं जागरूकाऽपि अहं प्रत्यक्ष स्वप्नं प्रेक्षे ? कि प्रकटयोगप्राबल्याऽपि अहं मृता? "अम्मो" ! किं मया एतादृशं महामूल्यं वस्तु हारितं, येन विना सर्व विद्यमानमपि तथाविधं अविद्यमानमिव प्रतिभाति । हन्दि ! केन प्रमुषितं मे हृदयशकलं, येन विना सकलमपि विस्मृतं जातम् । हरे ! मात्र त्सङ्ग-वञ्चितः स वराक: सिलिंबः किं कुर्वाणो भवेत् ? हन्त ! हतविधिना स्तनन्धयो बाल: कस्मात् मात्रा विरहितः कृतः ? कीदृशी परिपालना तस्य भविष्यति परगृहस्थितस्य मन्दभाग्यस्य ? एवं नानाविकल्पजालपरिकरिता माता कदापि मूर्ति, ग्लायति, म्लायति, अनवरत-प्रवहमाणबाष्पजलेन भूतलं पल्वलीकरोति च । विक्षिप्तचित्ता पुनः इतस्ततः परिभ्रमति ! क्षणमात्रमपि न कुत्रापि सुखलवमनुभवति । श्रेष्ठिनोऽपि तादृशी स्थितिः संवृत्ता। परं कः शृणोति विधिदावदग्धानां पुत्कारम् ?
१ उत्तानशयं-डिम्भम् २ उत्पन्ना ३ प्रकटयोगप्राबल्यापि ४ येन ५ प्रमुषितं-चोरितम् ६ विस्मृतम् ७ माऊआ-मात्रा ८ पल्वलीकरोति ।
For Private And Personal Use Only