________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिइओ ऊसासो धिग् धिग् ! कथं एतादृशं अविचारितं वाचासंधानं कृतं भवता"-एवं विलपन्ती भानुमती तत्क्षणं मोहमुपगता। विवर्णवदनकमलेन भर्ना नाना-उचितोपचारैः चेतनं प्रापिता सा रोदितु प्रवृत्ता। हद्धी ! कथं अहं न मृता मूर्छापरिगता ? पुत्र-विहीनं जीवितं किं न मरणातिरिक्तम् ? धिक् कृतान्तोऽपि न कथं अकृतान्तः ?
स्वस्था भव भामिान ! सर्व भव्यं भविष्यति । इह प्रतिज्ञापालन करणीयं अस्माभिः । आनय दारकं, यथा तं समर्प्य शपथीकृतं सत्यं कुर्मः । कम्पमानकरा वहद्वाष्पजला म्लायद्हृदया दूयमानमनाः अन्ते भानुमती पुत्र प्रत्यर्पयन्ती कथयितु प्रवृत्ता-"भव्या ! अस्ति एष पुत्रः अस्माकं हृदयस्य खण्डम्, नयनयोः ज्योतिः, कृपणस्य धनम्, जीवनस्य च सर्वस्वम् । सन्ति अनेकाः आशाः अस्योपरि । मनागपि मनो न इच्छति इमं क्षणमपि दूरयितुम्, परं किं भण्यते, अकथनीया कथा खलु भवितव्यतायाः, अनुल्लंघनीयारेखा किल देवस्य । तस्मात् एष निधिवत् सम्यक् सुरक्षितव्यः, कल्पतरुवत् सततं सेवितव्यः,धर्मवत् प्रतिपलं धारयितव्यश्च । किं बहुना कथितेन, यथा न भवति अस्य एकोऽपि बङ्को बालः तथा अनुष्ठातव्यं इति ।” एवं बहु जल्पन्त्या भानुमत्या रत्नपालो बालो हृदयेन गाढमालिङ्गितः सस्नेह, मुखेन परिचुम्बितः, अश्रुधाराभिः सिक्तः, अनेकाभिः शुभाशीभिः परिपोषितश्च हस्ताहस्तिकं समर्पितः।
नवा डयं च' (हे० २-१६९) तेन मणयं, मणिसं, मणा ५ अकथनीया ६ कथितेन । ७ धणिअं-गाढम् ८ हस्ताहस्तिका ।
For Private And Personal Use Only