________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिइआ ऊसासा हृदयं 'किमपि अघटितं सम्पाद्यते मया' इति अलक्ष्यमानवेदनं आकुलव्याकुलं श्रेष्ठिनः चित्तम् । विद्यु निपाततोऽपि दुरधिसहं दारकप्रत्यर्पणशब्दं नवप्रसविनी भानुमती कथं सहिष्यते' इति अभूत् किंकर्त्तव्यमूढः श्रेष्ठी ! मा अधिकाहितां 'स्थिति अनुभवतु तस्याः मृणालकोमल हृदयम्' इति विमृशता पत्या सात्विकमृदुवचनेन भार्या सम्बोधिता-"शक्तिमति ! अविभावितः किल कालस्य निर्गमः । पल्यसागराणां अपि प्राप्तो भवति अन्तिम: क्षणः, का वार्ता पुनः संख्यासंकेतितस्य ? समागत: स अनिष्ट: अष्टाविंशतितमो दिवसः, यस्मिन् आस्माकः नन्दनः परकीयः संवय॑ति । धर्मिष्ठे ! एतदेव धर्मप्राप्त्याः प्रत्यक्षं चिन्हं यत् प्रतिकूले समयेऽपि न धैर्यं छिद्यते ।"
"कुतः समागतः अष्टाविंशतितमो वासरः अद्यतनः आर्यपुत्र ! कथं संख्यावतां युष्माकं संख्याविभ्रमः जातः ?" प्रत्युत्तरितं त्रस्तहृदयया भानुमत्या साश्चर्यं सखेदं च।
न लक्ष्यते मातृहृदयया त्वया सत्वरः गत्वरः कालः । भद्रे ! न स्मरसि किं चन्द्रदर्शनयोग्यायां धवलायां द्वितीयायां पुत्रजन्म जातं अद्य कृष्णा रिक्ता चतुर्दशी तिथिः वर्तते । पश्य उपस्थिताः एते मन्मनसत्काः मनुजाः पुत्र करगतं कर्तुम् । “अव्वो ! उपस्थिताः एते मृतहृदयाः पुत्र हस्तयितुम् ! कथं अहं स्तनन्धयं परायत्त करोमि ?
६ संख्या-सङ्केतितस्य ७ आस्माक: ८ परकीयः ६ चिन्हं १० संख्यावताम् - दक्षाणाम् ११ तिथिः १२ मृतहृदया:
For Private And Personal Use Only