________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिइओ ऊसासो
प्रत्यावलिताः भृत्याः । कथितो व्यतिकरो यथावृत्तम् । अविश्वस्तं मन्मनमन: चिन्ताकुलं जातम् । मा ‘णं गृहीत्वा स्तनन्धयं भार्याद्वितीयो जिनदत्तः कुत्रापि पलायेत, तस्मात् अहं पूर्वमेव संरक्षणं करोमि, इति चिन्तयित्वा तत्क्षणं आकारिताः तेन निजकसत्काः शस्त्रपाणयः पुरुषाः । आज्ञप्तं पुनस्तेभ्यः- "सावधानः युष्माभिर्जिनदत्तभवनस्य पुरतः स्थातव्यं, प्रक्षितव्यं अहर्निशं यथा न किमपि अनिष्टं सावकाशं भवेत् । अतीते निश्चिते काले अर्भकं गृहीत्वा मे समीपं आगन्तव्यं इति ।"
शस्त्रपाणयः पुरुषाः क्षिप्रमेव तत्र आगताः, आवासस्य अग्रतः सावधानं स्थिताः । क: निःसरति, प्रविशति इति सलक्ष्यं सोपयोगं पश्यन्ति । विहितः श्रेष्ठिना अपूर्वो दारकजन्ममहोत्सवः । अनेकेषां शुभसन्देशाः प्राप्ताः । अनेके स्वेजनाः तत्र सम्मिलिताः । कृतं प्रतिष्ठानुरूपं प्रोतिभोजनादि कृत्यम् । दत्तं यथोचितं दानम् । स्थापितं पितृस्वस्रा दारकस्य ‘रत्नपाल' इति शुभं नामधेयम् । परमप्रेमप्रोषिताः कौटुम्बिकाःगताः निजकं निजकं स्थानं शावं शुभाशीभिर्वर्धापयन्तः ।
क्षणवत् अलक्षितं सप्तविंशतिः रात्रिन्दिवं व्यतिक्रान्तम् । परमप्रियपुत्रदर्शन-प्रत्यूहकारकः प्रत्यूषः उदयं प्राप्तः । प्रत्युत्थिताः मन्मनसत्काः पुरुषाः दारकं हस्तयितुम् । हन्त ! अद्य अति उदारमपि जिनदत्त
११ प्रत्यूषः-प्रभातसमय: १२ प्रत्युत्थिताः
प्रियपुत्रदर्शनप्रत्यूहकारक: १३ हस्तयितुम् ।
For Private And Personal Use Only