________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बिइओ ऊसासो .. अतिक्रान्तो गर्भकालः । सुखंसुखेन प्रसविनी जाता भानुमती। सर्वलक्षणसंयुक्त उत्पन्न पुत्ररत्नम् । अब्बो (आनन्दे) शून्यं गृहं गृहमणिना शोभितम् । अभूतपूर्वः उत्साहो वर्तितः स्वजनानां मनसि । धन्येन श्रेष्ठिना लब्धो वंशभानुः । दानादि-नीर-सिक्तः फलितः पुष्पितो धर्मकल्पवृक्षः । निभालयित्वा अर्भकमुखचन्द्र परमतुष्टा भानुमती । चिरपरिकल्पितो दोहदः पूरितो विधिना । अनेकैः आनन्दितः वयस्यैः गृहीतं श्रेष्ठितः पूर्णपात्रम् ।
यदा ज्ञाता मन्मनेन जिनदत्तस्य पुत्रोत्पत्तिः, शीघ्रमेव प्रषिताः तत्र निजकाः किंकराः पुत्र नेतुम् । आगतं तैः जिनदत्तस्य हम्ये कथितं च-"मन्मनसत्काः वयं नवजातं सिलिंबं (बाल) नेतु सम्प्राप्ता अत्र तदादेशेन ।"
तन्मार्गणं निशम्य श्रेष्ठी छिन्नहृदयो जातः एकपदे । हा! हा ! अधुनैव मार्गणम् ? एतादृश अविश्रम्भः ? तथापि निजं भावं संगोपयता तेन दीनमुखेन उदीरितम्-“भद्राः ! अद्य व जातं पुत्र जन्म ! अधुनापर्यन्तं न कृतः कोऽपि क्षणः । न स्थापितं पुत्रनामधेयम् । न भूतः प्रीतिभोजनादिविधिः। प्रार्थयत स्वस्वामिनं भोः ! यथा स चिरायते किञ्चित् । तदीयं वस्तु निश्चलं तस्मै समर्पयिष्यामि न कोऽपि सन्देहः । किन्तु सप्तविंशति अहोरात्रान् प्रतिपालयतु स उदारहृदयो महानुभावः।”
वत्थं पुणवत्तंति (पाइय० ६-४२) ४ शिशु ५ तदादेशेन ६ निशम्य ७ अविश्रम्भःअविश्वासः ८ चिरायते ६ प्रतिपालयतु।
For Private And Personal Use Only