SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पढमो ऊसासो ३१ नाम इभ्यो युष्माकं परमप्रीतिमान् बालसहचरः । आपतिते एतादृशे विपत् समये भवेत् सहायकः कदाचित् । एकवारं पुनः तस्य परीक्षा कर्त्तव्या मम कथनेन ।" मन्मनस्य क्लिष्ट - कृपणतया प्रत्यभिज्ञातोऽपि श्र ेष्ठी विश्वस्तभार्यया पुनः पुनः प्रेरितः तद्गृहाभिमुखं गन्तुमनाः जातः । मार्गे गच्छन् यथा यथा समीपयति तस्य दृढमुष्ठेः गृहं तथा तथा उद्विग्नं जायते अन्तःकरणम् । (छि ! छि 1 ) ( धिग् ! धिग ! ) जीवसि त्वं जिन - दत्तः ! अधमाधमं याचकभावं उररीकुर्वन् ? किं न याचनातः मरणं पवित्रम् ? त्वरया चलन्तौ श्र ेष्ठिनश्चलनौः तत्र व स्तम्भितौ जातौ । धैर्यमालम्ब्य पुनः विचिन्तयति - अलमलं अनेन आकुलत्वेन । नूनं पुरुषकारजेयं सर्वं दुःखम् इति विभावयन् पुनः अग्रत: चलितः । इत्थं विषादितान्तकरणः कथं कथमपि प्राप्तः मन्मनश्रेष्ठिनः हर्म्यम् । ! विषण्णवदनं आगच्छन्तं जिनदत्तं निभालय मन्मनो विस्मितो जातः । तत्क्षणं उत्थाय ससम्भ्रमं अभिमुखं गतः । ' स्वागतम्' इति वदन् आसनदानेन सन्तोषितः । किं आगमनकारणम्' इति निस्संकं पृष्टः । मधुरवचनैः पुनः समाश्वासितः । विचलित-हृदयेनापि जिनदत्त ेन प्रादुष्कृता मनोवेदना । मित्रवर ! किं कथयामि अकथनीयं व्यतिकरम् । आपतितोऽस्मि भीषणे विपज्जाले । विहिता विविधाः प्रयत्नाः विफलीभूताः । अन्ते बालसहचरं | ५ धीरं धैर्यम् 'इद्धयें' (हे० १-१५५ ) ६ पुरुषकारजेयम् - पौरुषजेय मित्यर्थः ७ विषादितान्तकरणः ८ हम्मिअ-देशीयः - हर्म्यमित्यर्थः । For Private And Personal Use Only
SR No.020603
Book TitleRayanwal Kaha
Original Sutra AuthorN/A
AuthorChandanmuni, Gulabchandmuni, Dulahrajmuni,
PublisherBhagwatprasad Ranchoddas
Publication Year1971
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy