________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
पढमा ऊसासो प्राथमिके अवसरे साधारणा अपि जनाः यथार्ह किमपि कत्त" प्रयस्यन्ति । भवान् तु लब्धप्रतिष्ठः राज्ञाऽपि परमसम्माननीयः वर्तते, कथं नो परिलक्ष्यते सामयिक प्रतिष्ठानुरूपं कृत्यम् ?
अध्यात्म-चिन्ताम्लानेन श्रेष्ठिना भणितम्-प्रिये ! सामयिक सप्तमासिकं 'आघरणी' इति नामकं कृत्यं न मया अलक्षितम् । 'प्रतिष्ठानुरूपं सर्वं साधु करोमि' इति अभिलषति मे उत्सुकं मनः । परं विभवेन विना सर्वाःदिशःशून्याः । तद्व्यतिरिक्तः कीदृशो महोत्सवः ? हा ! सत्या खलु एषा जनश्रुतिः यत् "दारिद्रयसमः पराभवो नास्ति' हन्त ! किं करोमि ? कुत्र व्रजामि ? विहितेऽपि प्रयत्ने कस्यापि सकाशात् न प्राप्तं भवति उद्धाररूपमपि धनम् । स्वजनाः तु संकथामपि न कुर्वन्ति ? चिरपरिचितानि खलु मित्राणि अक्षिमेलनमपि कुर्वन्तः ब्रीडन्ति । 'किमपि याचिष्यते' इति शङ्कमानाः दूरतः पलायन्ते।
दारिद्रय-दुःखितं पतिदेवं प्रेक्ष्य समय-दक्षया भानुमत्या भणितम्"नाथ ! ईदृशः एष संसारः । स्वार्थ-परायणा अत्र कृत्स्नापि प्रवृत्तिः । अनुकूले दैवे सर्वे परकीयाः निजायन्ते । प्रतिकूले स्वकाः अपि भवेयुः परकीयाः । हद्धी (हा धिक्) विपरीते विधौ अङ्गलग्नानि वस्त्राणि अपि प्रतिपक्षत्वं प्रतिपद्यन्ते । तथापि न नेतव्या हीनभावना, न छे दनीया आशारज्जुः, न हातव्यश्च प्रयत्नः । भवेत् प्रयत्न-जलाभ्युक्षिता कदापि फलीभूता आशावल्ली । तर्कयामि अहं यथा मन्मनो
मपि-'आपसी बातचीत' ३ निजायन्ते ४ स्वकाः ५ प्रतिपक्षत्वम् ६ प्रयत्नजलाभ्युक्षित-निषिक्ता इत्यर्थः।
For Private And Personal Use Only