________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो निक्षिप्त-चित्ताः मातरः जानु-कूपर-मात्रा भानुमत्या दृष्टाः । तत्क्षणं सा पुत्र-वन्ध्यं निजं उत्सङ्ग निभालयन्ती अगाध-शोक-सागरे निमग्ना। हद्धी ! (निवेदे) अफलं जातं मे जन्म ! ऊ (गर्हायाम्) किं मया लब्धं निरर्थकं मानुषीत्वम् ? थू ! (कुत्सायाम्) निर्लज्जेन विधिना मुधा अस्मभ्यं समर्पिता अतुला अर्थसंपत् ! ओ ! (पश्चात्तापे) विष्वग् गाढं अंधकारं प्रस्तृतं दृश्यते ! हरे (क्ष पे) कस्य पुरतो दुःखं प्रादुष्करोमि । धन्याः कृतपुण्याः णं (वाक्यालङ्कारे) एताः अम्बाः याभिः साक्षात् सुविहित-फलमिव दुर्लभं पुत्रमुख-हिमकर-दर्शनं सुलब्धम् । अहो ! कीदृशं निरुपम अनुभवगमनीयं सुखं संवेदयन्ति ताः; यासां कर्णयुगलं क्रीडारत-बाल-कोलाहलेन प्रतिपूर्णम् ! अम्मो ! (आश्चर्ये) त्र टिताक्षरा प्रकट-व्याकरण-नियम-विषमा अपि शावानां वाणी इक्ष - यष्टितोऽपि अधिकतर माधुर्य प्राप्नोति । अहह ! कदा एतादृशं सौवणिकं प्रत्यूषं प्रक्षिष्ये, यदा मामकमुत्सङ्गमपि अपत्यव्याकुलं भविष्यति ? हहा ! केवतिकाः अगणिताः यन्त्र-मन्त्र-तन्त्रादिका उपर्युपरि उपायाः पुत्रार्थ कृतोः, किणो ! (प्रश्ने) न केनापि किमपि प्रतिफलं दर्शितम् । मणे (विमर्श) भस्मराशौ हुतं इव ते वन्ध्यत्वं गताः । ओ ! (पश्चात्तापे) कीदृशं अव्यवस्थितं अविचारितं जडायाः प्रकृत्याः राज्यं, यत्र न किमपि यथार्ह दृश्यते । अरे ! (संभाषणे) यत्र च दारिद्रयस्य निश्चलो वासः तत्र अपारा परिवारस्य वृद्धिः, यत्र पुनः मुक्ताफलैः भरितं भाण्डागार, तत्र एकोऽपि द्वितीयायाः नवश्चन्द्र न दृष्टिपथमवतरति । एवं भानुमती विविध-विकल्प-तापपरितप्ता एक्कसरिअं (झगिति) सशब्दं परिदेवितु आरब्धा ।
सूचनापश्चात्तापे ६ विष्वक् ७ हरे-क्षेपेच (हे० २-२०२) ८ क्रीडारतबालकोलाहलेन ६ बालाणं-बालानाम् १० प्रत्यूषं ११ किणो प्रश्ने (हे. २-२१६) १२ मणे-विमर्श (हे० २-२०७) १३ ‘ल्लोनवैकाद्वा' (हे० २-१६५) ।
For Private And Personal Use Only