________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो पक्ष्मयुगलानि । यस्याः नवनीत-कोमलमप्युरः गृहीतप्रतिज्ञा-संरक्षणार्थं वज्रकठिनम् । यस्याः वचनानि सर्वेषां परमाल्हादजनकानि । कुलमर्यादा एव तस्याः परमो गरिमा। गुरूणां पुरत: विनयशीला सा कृताञ्जलिः सर्वैः दृष्टा। केनापि कथिता 'तथेति' 'युक्तमिति' विकस्वरवदनारविन्दया प्रतिपद्यमानया यया सम्यग् भावितम् । शिरीष-कोमलाङ्गी अपि अविश्राम गृहकार्य अखेदं कुर्वाणा प्रातिवेश्मिकैः प्रशंसिता । तस्मात् सर्वैः गृह-व्यवहारेषु प्रष्टव्या सा प्रीतिविश्रम्भ-भाजनं जाता। प्रतिस्पद्धिनोऽपि अन्यत्रालभ्यं तस्याः नैसर्गिक मधुरव्यवहारं प्राप्य विस्मृत-वैरभावाः भूताः ।
एवं सर्वतः दक्षिणभाव प्रतिपन्नोऽपि जिनदत्तः एकेन चिन्ताशल्येन किञ्चिद् उच्चेताः वर्तते। यदेकेन कुलदीपेन विहीनं धन-धान्य-भृत्यकिङ्कर-प्रतिपूर्ण सुसज्जितं सुमण्डितमपि धवलगृहं श्मशान-तुल्यं परिलक्ष्यते । हन्दि ! (खेदे) कीदृशो निष्ठुरः कृपणो विधिः ? यत् केषामपि न सर्वाङ्गीणं सुखं तितिक्षते। सर्वकाम-समर्पितोऽपि पुरुष: ईषत् अननुकूलत्वं प्रायोऽनुभवत्येव । सुधास्रोतसि अपि अभियाति कापि सूक्ष्मा कालकूट-रेखा । मनुजस्य ललाटे किं भद्रमभद्र लिखितमिति किं ज्ञायते अल्पज्ञ न मनुजेन ? तथापि अध्यात्म-तत्व-निपुणः आपात-बन्धुरमपि पर्यन्त-दारुणं पौद्गलिकं परिणाम जानन् अन्त
वुन्नमुत्तत्थं (पाइयलच्छी० १३२) ६ अभियाति ७ सूक्ष्मा ८ ज्ञायते 'ज्ञो णव्वणज्जौ' (हे० ४-२५३) ।
For Private And Personal Use Only