________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पढमो ऊसासो हितं 'इदानीं कुर्मः' इति तेषां विशिष्टा जागरणा । प्रायः धनेश्वरा अपि ते पर-दुःखे दुःखिताः । दुस्सहः तैः शान्ति-क्षमैरपि धार्मिकः पराभवः । आपतिते बहुकार्यभारेऽपि अद्वितीयं जानन्ति ते धर्मकार्यम् । अहो ! आश्चर्यम् ! तेषां सफल मनुजत्वं प्रेक्ष्य देवा अपि प्रतिस्पर्धन्ते तादृशाः भवितुम् ।
तेषु सकल-पुरजन-सम्मानितः मेधि-चक्ष भूतः भद्रप्रकृतिः दयाहृदयः जिनदत्तो नाम महेभ्यः । सामायिक-प्रतिक्रमण-पौषधोपवासान् सम्यक् पालयन् सुखं सुखेन विहरति । स अन्तरात्मनि निरन्तरं श्रावकाणां त्रीन् मनोरथान् भावयन् दुरुत्तरं दुरवगाहं संसार-सागरं पारं नेतु प्रयस्यति । धनसम्पत्त: बहुमन्यते स धर्मसम्पदम्। सरिज्जलमिव गत्वरं यौवनं, विद्य त्प्रकाशनिभं च जीवितं, पुरा पश्चाद् वा त्यक्तव्यं सर्वमिदमिति स्मरन् अप्रमादः तिष्ठति । प्रावृडागमे मयूरवद् भावितात्मनां मुनीन्द्रचन्द्राणां दर्शनं लब्ध्वा प्रफुल्लमानसो भवति । तेषां धर्मोपदेशं साधू वयस्यः तत्त्व-ग्रहणमत्या सादरं एकाग्रमनाः कुड्मलीकृत-पाणियुगलः आकर्णयति ।
तस्य श्रोष्ठिनः मनुजशरीरं प्राप्ता इव अप्सराः, पिण्डीभूता इव गुणसन्ततिः, साक्षाद् विनयसम्पद्, वंशपरम्परा-लब्धोच्च-संस्कारा, लज्जानमित-दृष्टिः, मधुर-व्यवहारा भानुमती नाम भार्या । यस्याः नेत्रकमलानि नित्यमुन्मीलितान्यपि परजनगतावगुणान् द्रष्टु मुद्रित
लब्धोच्चसंस्कारा १२ वाक्ष्यर्थवचनाद्याः (हे० १-३३) इति सूत्रेण कमलशब्दस्य पुस्त्वम् १३ 'गुणाद्याः क्लीबे वा' (हे० १-३४) इति सूत्रेण गुण-शब्दस्य नपुंसकत्वम् ।
For Private And Personal Use Only